ट्रंप–शी इत्यनयोः मेलनम् कृत्वा चीनदेशस्य विदेशमन्त्री स्वस्य अमेरिकीयसमकक्षेण सह संवादं कृतवान्
बीजिंगनगरम्, 28 अक्टूबरमासः (हि.स.)। चीनदेशस्य विदेशमन्त्री वाङ् यी सोमवासरे अमेरिकादेशस्य विदेशमन्त्री मार्को रुबियो इत्यनेन सह दूरभाषया संवादं कृतवान्। वाङ् महोदयेन आशा व्यक्ता यत् उभयपक्षौ उच्चस्तरीयविनिमयस्य उत्तमं सम्पादनं कर्तुं परस्परं मिल
68c27c9092199dc0ff29e71e674ab0d8_1846166876.jpg


बीजिंगनगरम्, 28 अक्टूबरमासः (हि.स.)। चीनदेशस्य विदेशमन्त्री वाङ् यी सोमवासरे अमेरिकादेशस्य विदेशमन्त्री मार्को रुबियो इत्यनेन सह दूरभाषया संवादं कृतवान्। वाङ् महोदयेन आशा व्यक्ता यत् उभयपक्षौ उच्चस्तरीयविनिमयस्य उत्तमं सम्पादनं कर्तुं परस्परं मिलित्वा द्विपक्षीयसम्बन्धानां विकासाय अनुकूलपरिस्थितीनि निर्मास्यतः इति। वाङ् इत्यनेन बलं दत्तं यत् शी जिन्पिङ् तथा डोनाल्ड ट्रम्प इत्येतौ उभौ विश्वस्तरीयनेतारौ स्तः। उभयोरपि मध्ये पारस्परिकमानस्य भावः अस्ति, यः चीन–अमेरिका सम्बन्धानां सर्वाधिकं मूल्यवानं रणनीतिसम्पत्तिरूपेण स्थितः अस्ति।

चाइना डेली नामकपत्त्रिकायाः वार्तानुसारं, एषा दूरभाषसंवादः शी जिन्पिङ् महोदयस्य कोरिया–गणराज्यगमनात् त्रिदिनपूर्वं जातः, यत्र सः एशियाप्रशान्त–आर्थिक–सहयोगस्य द्वात्रिंशः आर्थिकनेतृ–सम्मेलनस्य भागी भविष्यति। विदेशमन्त्रालयेन पुनः पुनः उक्तं यत् राष्ट्राध्यक्षस्य कूटनीतिः चीन–अमेरिका सम्बन्धेषु अपरिहार्यं रणनीतिनिर्देशकरूपं कार्यं करोति। अस्मिन् वर्षे ट्रम्पेन पदग्रहणानन्तरं शी जिन्पिङेन तेन सह त्रिवारं—जनवरी, जून, सप्टेम्बरमासेषु—संवादः कृतः।

वाङ् महोदयेन चीन–अमेरिका सम्बन्धानां व्यापकमहत्त्वं निर्दिष्टं, सः उक्तवान् यत् तस्य प्रभावः विश्वदिशां प्रति व्याप्नोति। तेनोक्तं यत् दृढाः, स्थिराः, दीर्घजीवनयुक्ताश्च द्विपक्षीयसम्बन्धाः उभयोः राष्ट्रयोः दीर्घकालीनहितं साधयन्ति तथा अन्तर्राष्ट्रीयसमाजस्य सामूहिकअपेक्षाः अपि पूरयन्ति।

वाङ् इत्यनेन उक्तं यत् जगतः द्वयोः प्रमुखयोः अर्थव्यवस्थयोः मध्ये आर्थिक–व्यापारिकसम्बन्धाः अद्यतनकाले नूतनानि आव्हानानि प्राप्नुवन्ति। तेनोक्तं यत् बीजिङ्–वाशिङ्गटननगरयोः प्रतिनिधिभ्यां रविवासरे मलेशियायाः राजधानी–कुआलालम्पुरे द्विदिनीय–आर्थिक–व्यापारिकवार्तायाः समापनं कृतम्। उभयपक्षौ तस्मिन् अवसर एव स्वस्वस्थितिं प्रकाश्य परस्परसम्बोधं वर्धयित्वा प्रमुखानि व्यापारिकविवादप्रश्नानि समसमानसोपाने समाधानं कर्तुं प्रयत्नं कृतवन्तौ।

रुबियो इत्यनेन उक्तं यत् अमेरिका–चीनयोः सम्बन्धः जगति सर्वाधिकमहत्त्वपूर्णः द्विपक्षीयसम्बन्धः अस्ति। तेन आशा व्यक्ता यत् उच्चस्तरीयसंवादेन उभयपक्षौ अन्ताराष्ट्रियसमाजं प्रति सकारात्मकसंकेतं प्रेषयितुं शक्नुयाताम् इति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता