Enter your Email Address to subscribe to our newsletters

नवदेहली, 28 अक्टूबरमासः (हि.स.)। गेम् चेंजर्स् टेक्स्फैब् इत्यस्य ५४.८४ कोटि रूप्यकाणां मूल्यवान् प्रारम्भिक-लोक-प्रस्तावः (IPO) अद्य सदस्यतायै उद्घाटितः। अस्मिन् प्रस्तावे ३० अक्टूबरपर्यन्तं निवेदना (बोली) कर्तुं शक्यते। प्रस्तावस्य समापनानन्तरं ३१ अक्टूबर-दिने अंशानां (शेयर) वितरणम् भविष्यति। ततः ३ नवम्बर-दिने प्रदत्ताः अंशाः निवेशकानां डीमैट्-खातेषु जमा भविष्यन्ति। अस्य संस्थायाः अंशाः ४ नवम्बर-दिने बीएसई-एसएमई-मञ्चे सूचीकृताः भविष्यन्ति।
अस्मिन् प्रस्तावे प्रति-अंशं ९६ रूप्यकात् आरभ्य १०२ रूप्यकपर्यन्तं मूल्य-बन्धः निश्चितः अस्ति। एकस्मिन् लॉट् मध्ये १२०० अंशाः निर्दिष्टाः। रिटेल् निवेशकाः न्यूनतमं द्वौ लॉटौ (२४०० अंशौ) क्रेतुं शक्नुवन्ति, यस्य कृते २,४४,८०० रूप्यकाणां निवेशः अपेक्षितः। अस्य आईपीओ-अन्तर्गतं ५३,७६,००० नूतनाः अंशाः निर्गच्छन्ति।
आईपीओ उद्घाटनात् एकदिनपूर्वं २७ अक्टूबर सोमवासरे गेम् चेंजर्स् टेक्स्फैब् एंकर-निवेशकैः सह ९.१३ कोटि रूप्यकाणां निधिं संकलितवती। एतेषु एंकर-निवेशकेषु सेन्ट्-कैपिटल्-निधिः प्रमुखः आसीत्, यस्य द्वारा ४ कोट्यधिकमूल्यस्य अंशाः क्रीताः। तदनन्तरं मेरु-निवेश-निधिः, वेलोस्-अपॉर्च्युनिटीज्-निधिः, सीपी-कैपिटल्-लिमिटेड् इत्येते अपि प्रमुखाः निवेशकाः तत्र सम्मिलिताः।
अस्मिन् आईपीओ मध्ये पात्र-संस्थागत-क्रेतृभ्यः ४७.४६ प्रतिशतं अंशं आरक्षितम्। रिटेल्-निवेशकेभ्यः ३३.२६ प्रतिशतं, अपात्र-संस्थागत-निवेशकेभ्यः (NII) १४.२६ प्रतिशतं, तथा मार्केट्-मेकर्स् कृते ५.०२ प्रतिशतं भागः आरक्षितः अस्ति। अस्य प्रस्तावस्य प्रमुख-प्रबन्धकः कॉर्पविस् एड्वाइजर्स् प्रा.लि. नियुक्ता, रजिस्ट्रारः स्काईलाइन्-फाइनान्शियल्-सर्विसेस् प्रा.लि., तथा मार्केट्-मेकर्स् रूपेण एन.एन.एम् सिक्युरिटीज् प्रा.लि. नियुक्ता।
संस्थायाः वित्तीय-अवस्थां दृष्ट्वा ज्ञायते यत् अस्याः आर्थिक-स्थिति: सततं सुदृढा जात। वित्तीय-वर्षे २०२२–२३ संस्थायै ५३ लक्ष रूप्यकाणां शुद्धलाभः अभवत्। स एव २०२३–२४ वर्षे ४.२७ कोटि रूप्यके, तथा २०२४–२५ वर्षे वर्धमानः १२.०७ कोटि रूप्यकपर्यन्तं प्राप्तः। आयः तु अस्मिन् अवधौ किञ्चित् परिवर्तनशीलः आसीत् — २०२२–२३ मध्ये १००.५८ कोटि रूप्यकाणां कुलराजस्वं प्राप्तम्, यः २०२३–२४ मध्ये ९७.८६ कोटि रूप्यकाणि, तथा २०२४–२५ मध्ये ११५.५९ कोटि रूप्यकाणि अभवत्। वर्तमान-वित्तवर्षस्य प्रथम-त्रैमासिके (एप्रिल्–जून् २०२५) ४.२७ कोटि रूप्यकाणां शुद्धलाभः, २४.११ कोटि रूप्यकाणां राजस्वं च संस्थया प्राप्तम्।
ऋणभारः अपि अस्मिन् अवधौ परिवर्तितः — २०२२–२३ अन्ते ६.४६ कोटि रूप्यकाणां ऋणम् आसीत्, यः २०२३–२४ मध्ये ५.५४ कोटि रूप्यकेन न्यूनः जातः, पुनः २०२४–२५ मध्ये ५.६६ कोटि रूप्यकाणि जातानि। वर्तमान-वर्षस्य प्रथम-त्रैमासिके एप्रिल्–जून् २०२५ मध्ये एषः ऋणभारः ९.८८ कोटिरूप्यकाणां स्तरं प्राप्तः।
आरक्षितः तथा अधिशेषः अपि क्रमशः वर्धमानौ अभवताम्। २०२२–२३ मध्ये ४.६४ कोटि रूप्यकाणि, २०२३–२४ मध्ये ८.९० कोटि रूप्यकाणि, २०२४–२५ मध्ये ८.४९ कोटि रूप्यकाणि, तथा एप्रिल्–जून् २०२५ मध्ये १२.७६ कोटि रूप्यकाणि प्राप्तानि।
तथा ईबीआईटीडीए अपि उल्लेखनीयरीत्या वर्धितः — २०२२–२३ मध्ये १.२६ कोटि रूप्यकाणि, २०२३–२४ मध्ये ६.७३ कोटि रूप्यकाणि, २०२४–२५ मध्ये १८.५९ कोटि रूप्यकाणि, वर्तमान-वर्षस्य प्रथम-त्रैमासिके ६.०५ कोटिरूप्यकाणि।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता