Enter your Email Address to subscribe to our newsletters


—प्रातरेव व्रतिन्यो महिलाः तत्परिजन घट्टेषु प्राप्नुवन्,समूहे भगवतः सूर्यदेवस्य छठी मातुश्च पूजनार्चनम्
परिजनाः उत्साहपूर्वकं समाचरत्,घट्टेषु पारम्परिक गीतं 'उग हो सूरुज देव भईल अरघ के बेर' इति गूंजितम्वाराणसी, 28 अक्टूबरमासः (हि.स.)।लोकआस्था–सूर्योपासनयोः संगमः रूपेण प्रसिद्धः चतुर्दिनात्मकः डाला-षष्ठी-महापर्वः अद्य मङ्गलवासरे उदितसूर्याय अर्घ्यं दत्त्वा श्रद्धया, भक्त्या च सम्पन्नः।काशीपुराधिपतेः नगरी वाराणसी इत्यस्मिन् दिव्ये क्षेत्रे प्रातःकाले एव व्रतीस्त्रियः स्वपरिजनैः सह गङ्गायाः वरुणायाश्च घाटेषु आगत्य उपस्थिताः। ईखशाखाभिः, दीपकैः, दौरेषु सज्जितया पूजासामग्रीया च सह यदा श्रद्धालवः एकत्रिता आसन्, तदा सम्पूर्णं वातावरणं भक्ति-संगीत-श्रद्धाभिः आप्लुतं जातम्।
प्रभाते दशाश्वमेध, अस्सी, पंचगङ्गा, सम्मुखघाट (सामनेघाट) इत्यादयः प्रमुखघाटाः भक्तजनसमूहैः परिपूर्णाः आसन्। व्रतीस्त्रियः उदितसूर्यस्य प्रतीक्षां कुर्वन्त्यः “उग हो सूरुज देव भइल अरघ के बेर”, “पुरुबे से उगले नारायण” इत्यादीन् पारम्परिकान् गीतान् गायन्त्यः वातावरणं गुञ्जयामासुः।
यदा पूर्वदिशायां रक्तिमा छटा प्रसारितवती, तदा श्रद्धालूनां जयघोषैः आतिशबाजिभिश्च सम्पूर्णः गङ्गाघाटप्रदेशः निनादितः। तदा व्रतीस्त्रियः अर्घ्यं दत्त्वा भगवतः सूर्यस्य षष्ठीमैयायाश्च नाम स्मृत्वा परिवारस्य सुखसमृद्धिं, वंशवृद्धिं, मङ्गलं च प्रार्थितवन्त्यः। ततः पश्चात् सर्वे श्रद्धालवः परस्परं प्रसादं वितर्य पर्वस्य शुभाशंसनं च कृतवन्तः।
गङ्गातटेषु एव न, किं तु वरुणानद्याः तटे, नगरस्य सरोवरेषु, तालाबेषु, ग्रामप्रदेशेषु च अपि श्रद्धालवः विधिविधानपूर्वकं पूजाः अर्चनां च कृतवन्तः।
सुरक्षायाः पुख्तव्यवस्था —छठ्पर्वस्य अवसरात् प्रशासनने दृढाः सुरक्षा-व्यवस्थाः कृताः। NDRF-संघाः, जलपुलिस्, प्रशासनिकाधिकारिणः च सर्वे घाटेषु सावधानतया स्थिताः। वरिष्ठपुलिसाधिकृताः, SSP च भोरात् आरभ्य शास्त्रीघाट, राजघाट, गायघाट, भैसासुरघाट, मणिकर्णिका, त्रिलोचन, सिन्धियाघाटादिषु प्रमुखस्थलेषु गश्तिं कुर्वन्तः आसन्।
---
वृष्ट्याऽपि न शिथिलीजाता भक्तिः — सहस्रशः महिलाः रात्रौ आराधनायां लीनाः
धर्म–आस्थयोः नगरी काशी इत्यस्मिन् सोमवारसन्ध्यायां षष्ठी-महापर्वस्य अद्भुतं दृश्यं दृष्टम्। गङ्गातटस्य सर्वे घाटाः लाखशः व्रतीस्त्रीभिः श्रद्धालुभिश्च परिपूर्णाः आसन्। अस्तसूर्याय अर्घ्यं दत्त्वा अपि सहस्रशः महिलाः घाटेषु एव स्थिताः, रात्रिं पर्यन्तं खुलेन आकाशेन अधो छठमातुः आराधनायां निमग्नाः।
वृष्ट्या, शैत्येन च सह अपि तासां श्रद्धा न डिगिता।प्रायः षट्त्रिंशद्घण्टिकानां निर्जलव्रतं कृत्वा, ताः रात्रौ भजन–कीर्तनैः जागरणं च कृतवत्यः।मङ्गलवासरस्य प्रभाते उदितसूर्याय अर्घ्यं दत्त्वा व्रतस्य समापनं कृतवन्त्यः, ततः गृहं प्रत्यागच्छन्।
छठमैयायाः सूर्यदेवस्य च प्रती व्रतीनाम् अनन्या आस्था न केवलं स्थानीयश्रद्धालूनां हृदयानि स्पृष्टवती, किं तु विदेशीपर्यटकानामपि मनांसि मोहितवती।घाटेषु आगत्य विदेशीस्त्रयः व्रतीस्त्रीभिः सह छायाचित्रग्रहणं कृत्वा अस्य अनोखस्य धार्मिकानुष्ठानस्य क्षणान् कैमरेषु संग्रहितवन्तः।
एतेषु क्षणेषु काश्याः गङ्गाघाटेषु — अस्सी, दशाश्वमेध, राजघाटादिषु छठ्गीतानां गुञ्जा, दीपानां प्रकाशः च सर्वं वातावरणं भक्ति–आस्थाभ्यां आलोकितवन्तौ।
---
हिन्दुस्थान समाचार