Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 28 अक्टूबरमासः (हि.स.)।जोधपुरस्य विकासं नवगत्याऽनुग्राहयन्ती केन्द्रसरकारा वन्देभारत-कोच-परिपालन-केन्द्रस्य (मेंटेनेंस डिपो) विस्तारार्थं एकशत्-पञ्चनवतिं (१९५) कोटीरूप्यकाणां स्वीकृतिं प्रदत्तवती। अस्य महत्त्वपूर्णस्य निर्णयस्य कृते केंद्रीय-संस्कृति-पर्यटन-मन्त्री गजेन्द्रसिंहः शेखावतः प्रधानमन्त्रिणं नरेन्द्रं मोदीं रेलमन्त्रिणं च अश्विनीं वैष्णवं प्रति कृतज्ञतां प्रकटितवान्।
शेखावतः उक्तवान् यत् जोधपुरे निर्मियमाणस्य वन्देभारत-शयनयान-ट्रेन-परिपालन-केन्द्रस्य विस्तारात् उच्चवेग-रेल-जालस्य सौरक्षणसंवर्धन-प्रशिक्षण-तथा तांत्रिकविकासक्षेत्रेषु नूतनाः आयामाः उद्घाट्यन्ते। अस्य परियोजनया जोधपुरं देशस्य उच्चवेग-रेल-परिसंस्थायाः एकं प्रमुखं केन्द्रं भविष्यति।
केंद्रीयमन्त्री शेखावतः अवोचत् यत् प्रधानमन्त्रिणः मोदीनः नेतृत्वेण जोधपुरं सहितं सम्पूर्णं राजस्थानं अभूतपूर्वं विकासयात्रां प्रति अग्रसरम् अस्ति। रेलक्षेत्रेऽयं निवेशः न केवलं तांत्रिकप्रगतिं शीघ्रतां नयिष्यति, अपितु युवानां कृते नूतनानि रोजगार-प्रशिक्षण-सुवर्णसंधीनि अपि सृजिष्यति।
शेखावतः अवोचत् यत् उत्तर-पश्चिम-रेलवेना अस्य परियोजनायै रेलपरिषद् प्रति १९५ कोटीरूप्यकाणां प्रस्तावः प्रेषितः आसीत्, यस्य अनुमतिः इदानीं प्राप्ता। अस्याः अन्तर्गतं वन्देभारत-शयनयान-ट्रेनानां परिपालनकेन्द्रस्य विस्तारः, बहुउद्देशीय-कार्यशाला (वर्कशॉप्), विश्वस्तरीय-प्रशिक्षण-केन्द्रं च निर्मीयते।
सः अपि उक्तवान् यत् द्वितीयचरणे प्रस्ताविते प्रशिक्षणकेन्द्रे वन्देभारतसहित-सर्वेषां उच्चवेग-रेलयानानां रखरखाव-सम्बद्ध-इञ्जिनियराणां तांत्रिकाणां च कृते आधुनिकं प्रशिक्षणं प्रदास्यते।
अस्य परियोजनायाः फलरूपेण जोधपुरं रेलक्षेत्रे नवां पहचानं प्राप्स्यति। आगामिकाले जोधपुरं केवलं परिपालनकेन्द्रं न, अपितु प्रशिक्षण-तांत्रिक-नवोन्मेषयोः अपि प्रमुखं केन्द्रं भविष्यति।
गौरवपूर्णं यत् वर्तमानकाले जोधपुरस्य भगत-की-कोठी-धावनरेखायाः समीपे एकशत् षट्षष्टिकोटीरूप्यकाणां व्ययेन डिपो-निर्माणकार्यं शीघ्रतया प्रवर्तमानम् अस्ति। एषा एव परियोजना या प्रधानमन्त्रिणा नरेन्द्रेण मोदीना १६ फेब्रुवरि २०२४ तमे दिने शिलान्यासिता आसीत्।
---------------
हिन्दुस्थान समाचार