मायावती 29 दिनांके आहूतमुपवेशनम् , ‘मुस्लिम समाज भ्रातृत्व संगठनं’ करिष्यति सम्बोधितम्
लखनऊ, 28 अक्टूबरमासः (हि.स.)।बहुजनसमाजपक्ष्याः (बसपा) राष्ट्रियाध्यक्षा मायावती 29 अक्टूबरतिथौ लखनऊनगरे “मुस्लिमसमाज-भ्रातृत्व-संघटनस्य” विशेषं मण्डलस्तरीयसभां सम्बोधयिष्यति। बसपा दलः उत्तरप्रदेशराज्ये 2027 तमे विधानसभानिर्वाचनस्य तयारीं करोति। केव
बसपा प्रमुख मायावती


लखनऊ, 28 अक्टूबरमासः (हि.स.)।बहुजनसमाजपक्ष्याः (बसपा) राष्ट्रियाध्यक्षा मायावती 29 अक्टूबरतिथौ लखनऊनगरे “मुस्लिमसमाज-भ्रातृत्व-संघटनस्य” विशेषं मण्डलस्तरीयसभां सम्बोधयिष्यति। बसपा दलः उत्तरप्रदेशराज्ये 2027 तमे विधानसभानिर्वाचनस्य तयारीं करोति। केवलं स्वयमेव निर्वाचनं योधुं निश्चिता पक्षो बसपा इदानीं मुस्लिमसमुदायं एकत्रीकर्तुं महदभियानं आरब्धवती अस्ति। पक्षे राज्यस्य प्रत्येकमण्डले मुस्लिमभ्रातृत्वसमितयः गठिताः सन्ति। बसपानेत्री श्वः एताः समितीः सम्बोधयितुं सभां आह्वयति। सा च दलकार्यकर्तॄन् “विशेषगहनसमीक्षा” (एस्.आइ.आर्.) इत्यस्य सम्बन्धे केन्द्रीयनिर्वाचनायोगस्य निर्देशैः अपि अवगतयिष्यति। पक्षकार्यालयात् प्राप्तसूचनानुसारं एषा सभा पक्षमुख्यालये, 12 मॉल एवेन्यू इत्यस्मिन् स्थले प्रातः एकादशवादनात् आरभ्य भविष्यति। पक्षस्य सर्वे पदाधिकरिणः तत्र उपस्थिता भविष्यन्ति।

---------------

हिन्दुस्थान समाचार