जलवायु परिवर्तनान्निवर्तितुं भारतं दृढ़संकल्पः- राष्ट्रपतिः
नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः मङ्गलवासरे अवदत् यत् जलवायुपरिवर्तनं समग्रं जगतं प्रभावितं करोति। अस्य भयस्य निवारणार्थं तत्क्षणं दृढानि च उपायाः अवलम्बनीयाः। भारतदेशः जलवायुपरिवर्तनस्य संकटेन निवारणाय दृढसंकल्पितः अस्
राष्ट्रपति कार्यक्रम को संबोधित करती हुई


नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः मङ्गलवासरे अवदत् यत् जलवायुपरिवर्तनं समग्रं जगतं प्रभावितं करोति। अस्य भयस्य निवारणार्थं तत्क्षणं दृढानि च उपायाः अवलम्बनीयाः। भारतदेशः जलवायुपरिवर्तनस्य संकटेन निवारणाय दृढसंकल्पितः अस्ति।

राष्ट्रपतिः अद्य नवदिल्लीपुर्यां अन्ताराष्ट्रियसौरसङ्घस्य (International Solar Alliance – ISA) अष्टमं अधिवेशनम् उद्घाटयत्।

अवसरे अस्मिन् सा अवदत् यत् — “अन्ताराष्ट्रियसौरसङ्घः मानवजात्याः समष्ट्याः आकाङ्क्षायाः प्रतीकः अस्ति, या समावेशिता, परस्परसम्मानः, सामूहिकसमृद्धिः च इत्येतान् मूल्यान् अधारयित्वा सौरऊर्जायाः उपयोगं साधयितुम् इच्छति।”

तया उक्तं यत् ISA सौरऊर्जायाः स्वीकरणं प्रोत्साहनं च कृत्वा एतस्य वैश्विकस्य चुनौतीस्य समाधानाय महत्त्वपूर्णं पादं स्थापयति।

राष्ट्रपतिः उक्तवान् यत् “समावेशिताया विचारः भारतस्य विकासयात्रां परिभाषयति।”

दूरस्थेषु प्रदेशेषु गृहाणां प्रकाशनसंबन्धिनि अस्माकं अनुभवे एव अस्माकं एषः विश्वासः दृढीकृतः यत् ऊर्जासमानता एव सामाजिकसमानतायाः आधारः अस्ति।

सा अवदत् — “स्वल्पमूल्या शुद्धा च ऊर्जायाः प्राप्तिः समुदायान् सशक्तान् करोति, स्थानीयं अर्थतन्त्रं प्रेरयति, तथा अपि तादृशानि अवसराणि उद्घाटयति ये विद्युत्समर्पणात् अपि परं विस्तीर्णानि भवन्ति।”

राष्ट्रपतिः सर्वान् सदस्यराष्ट्रान् प्रति आग्रहं कृतवती यत् — “केवलं आधारभूतसंरचनायां न स्थातव्यम्, अपितु जनजीवनस्य उत्कर्षे ध्यानं दातव्यम्।”

सा उक्तवती — “सौरऊर्जा केवलं विद्युतोत्पादनस्य साधनं न, किन्तु सशक्तीकरणस्य समावेशीविकासस्य च साधनं अस्ति।”

अन्ते राष्ट्रपतिः अवदत् — “वयं सर्वे मिलित्वा केवलं अद्यतनाय न, अपि तु भाव्यपीढ्यै अपि अधिकेन समर्पणेन कार्यं कर्तव्यम्।”

तया विश्वासः व्यक्तः यत् — “अस्य सभायाः चर्चाः निर्णयाश्च सौरऊर्जाउत्पादनक्षेत्रे मीलस्तम्भरूपेण सिद्धाः भविष्यन्ति, यः समावेशिनं समतामूलकं च विश्वं निर्मातुम् योगदानं दास्यति।”

---------------

हिन्दुस्थान समाचार