Enter your Email Address to subscribe to our newsletters

रायपुरम् 28 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य विभिन्नजनपदेषु विविधानि घाटानि स्थलेषु च उत्सवपूर्वकं उदयमानसूर्याय अर्घ्यप्रदानेन मङ्गलवासरे महापर्वणः छठ इत्यस्य समापनं सम्पन्नम्। व्रतीजनाः उदयभास्करस्य उपासना कृत्वा षट्त्रिंशद्घण्टिकायाः निर्जलव्रतस्य पूर्णतां प्राप्नुवन्।
राजधानीरायपुरनगरे महादेवघाटे, शीतलातालाबे, तेलीबांधातालाबे, बुढातालाबे इत्यादिषु स्थलेषु रात्रेः आरभ्यैव भक्तजनानां विशालः समुदायः समागतः। व्रतीनार्यः प्रातःकाले सूपफलैः ठेक्वा प्रसादैः सह नदीघाटतटेषु प्रविश्य उदयमानाय सूर्याय अर्घ्यं दत्तवन्त्यः। तत्र छठीमातुः गीतानां गुञ्जनं सर्वत्र श्रुतम्।
एतस्मिन्नन्तरे रायपुरे मन्दं वर्षमपि जातम्, तथापि जनानां आस्था न कदापि निवारिता। भक्तजनानां सुरक्षार्थं बहुसंख्यकः पुलिसबलः तत्र नियोजितः आसीत्।
उल्लेखनीयम् यत् कार्तिकमासस्य शुक्लपक्षसप्तमीति तिथौ उदयमानभास्कराय अर्घ्यं दीयते। अस्मिन् दिने सर्वे व्रतीजनाः व्रतपारणं कुर्वन्ति। पारणेन सह षट्त्रिंशद्घण्टिकानां निर्जलोपवासः समाप्तः अभवत्। गतसंध्यायां व्रतीनार्यः अस्ताचलगामिनं सूर्यं प्रति अपि अर्घ्यं दत्तवन्त्यः।
राजधानीरायपुरे महादेवघाटे, शीतलातालाबे, बुढातालाबे, तेलीबांधातालाबे, बोऱियाखुर्दतलाबे च अन्येषु स्थलेषु अपारः श्रद्धालुसमूहः एकत्रितः आसीत्, ये सर्वे लोकआस्थायाः महापर्वं छठं भक्तिपूर्वकं उल्लासेन च उत्सवितवन्तः।
व्रतीजनाः नदीतीरे, तालाबतीरे, स्वनिवासप्रदेशेषु च छठघाटान् निर्माय जलमध्ये स्थित्वा सूर्यदेवस्य उपासना–प्रार्थनां च कृतवन्तः। ते सर्वे सूर्यदेवतायाः कृपां प्राप्तवन्तः, स्वपरिवारस्य कल्याणाय दीर्घायुषे च प्रार्थनां अकुर्वन्।
सर्वे छठघाटाः रंगबिरङ्गदीपप्रभाभिः अलङ्कृताः आसन्। जिलाप्रशासनस्य पक्षेण अपि उत्कृष्टा सुरक्षा–व्यवस्था कृताः, येन व्रतीजनाः, श्रद्धालवः च असुविधां विना उत्सवं श्रद्धया शान्त्या च आचरितुं शक्नुवन्ति।
हिन्दुस्थान समाचार