चक्रवातीप्रवात मोंथाम् आधृत्य अश्विनी वैष्णवः अकरोत् सज्जानां समीक्षाम्
नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।सूचनाप्रसारणमन्त्री अश्विनी वैष्णवः मङ्गलवासरे “मोंथा” इति चक्रवातीयतूफानस्य प्रसङ्गे कृतानां तैयार्याणां समीक्षा अकुर्वत्। तेन अधिकारिणः पूर्वतटीये भागे सावधानतामूलकानि उपक्रमाणि कर्तुम् आदेशिताः। वैष्णवेन मोंथा-
मोंथा के मद्देनजर तैयारियों की समीक्षा करते हुए रेल, सूचना एवं प्रसारण मंत्री अश्विनी वैष्णव


नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।सूचनाप्रसारणमन्त्री अश्विनी वैष्णवः मङ्गलवासरे “मोंथा” इति चक्रवातीयतूफानस्य प्रसङ्गे कृतानां तैयार्याणां समीक्षा अकुर्वत्। तेन अधिकारिणः पूर्वतटीये भागे सावधानतामूलकानि उपक्रमाणि कर्तुम् आदेशिताः।

वैष्णवेन मोंथा-चक्रवातस्य संभावितप्रभावान् दृष्ट्वा विशेषतः आन्ध्रप्रदेशे, ओडिशाराज्ये, तेलङ्गाणाराज्ये च रेलमार्गविभागस्य तैयार्याः समीक्षा कृता, अधिकारिणः च निर्दिष्टाः।

माध्यमैः सह संवादे सः उक्तवान् यत् विभागीययुद्धकक्षाः (Divisional War Rooms) सक्रियाः कृताः, येन वास्तविकसमये निगराणां समन्वयश्च साध्येत।

आवश्यकसामग्री, यन्त्रसाधनानि, मानवसंसाधनानि च विशेषतः विजयवाडा, विशाखापत्तनं, गुंटूर्-डिवीजनस्थलेषु सज्जीकृतानि सन्ति। रेलयात्रायाः संचालनं निरन्तरं निरीक्ष्यते।

पूर्वतट-रेलवे (ECoR), दक्षिणपूर्व-रेलवे (SCoR), दक्षिणतट-रेलवे (SCR) इत्येतयोः विभागयोः आपत्कालीनप्रतिक्रियार्थं संसाधनसंग्रहणं कर्तुं, सर्वाणि सुरक्षासावधानानि च अवलम्बितुं आदेशाः दत्ताः।

------------

हिन्दुस्थान समाचार