Enter your Email Address to subscribe to our newsletters

जबलपुरम्, 28 अक्टूबरमासः (हि.स.)।राष्ट्रियस्वयंसेवकसङ्घस्य अखिलभारतीयकार्यकारिणीमण्डलस्य उपवेशने मध्यप्रदेशराज्ये जबल्पुरनगरे ३० अक्टोबर् तिथेः १ नवम्बर् तिथिपर्यन्तं आयोजितम् अस्ति। सङ्घस्य शताब्दिवर्षस्य दृष्ट्या एषा बैठक अत्यन्तं महत्वपूर्णा मन्यते। सङ्घस्य अखिलभारतीयप्रचारप्रमुखः सुनील आंबेकर इत्यनेन मङ्गलवासरे पत्रकारसम्मेलने उक्तं यत् अस्मिन् सम्मेलने सरसङ्घचालकः डॉ. मोहनभागवतः, सरकार्यवाहः दत्तात्रेयहोसबाले च सम्पूर्णकालं उपस्थितौ भविष्यतः। सङ्घस्य षट् सहसरकार्यवाहः, अखिलभारतीयकार्यविभागेषु प्रमुखाः, राष्ट्रियकार्यकारिणी-सदस्याश्च अस्मिन् सम्मेलने सहभागी भविष्यन्ति।
देशस्य षट्चत्वारिंशत् प्रान्तेभ्यः प्रमुखाः पदाधिकाऱिणः, प्रान्तसङ्घचालकाः, प्रान्तकार्यवाहः, सहप्रान्तकार्यवाहः, प्रान्तप्रचारकाः, सहप्रान्तप्रचारकाः, अन्ये च प्रमुखकार्यकर्तारः—एवं सर्वे मिलित्वा चत्वारिशत् सप्त (४०७) कार्यकर्तारः अस्मिन् सम्मेलने उपस्थिताः भविष्यन्ति। पत्रकारसम्मेलने अखिलभारतीयसहप्रचारप्रमुखः नरेन्द्रठाकुरः, प्रदीपजोशी च अपि उपस्थितौ आस्ताम्। महाकौशलप्रान्तस्य प्रचारप्रमुखः विनोदकुमारः अपि तत्र उपस्थितः आसीत्।
आंबेकरमहाशयेन उक्तं यत् त्रिदिनात्मकायाम् अस्मिन् बैठायां संगठनात्मकदृष्ट्या महत्वपूर्णेषु विषयेषु चर्चा भविष्यति। शताब्दिवर्षस्य योजनासु च विस्तृतविचारः अपि भविष्यति। एतस्मिन् निमित्ते सर्वे प्रान्ताः स्वस्वकार्ययोजनां सिद्धां कृतवन्तः। अस्मिन् सम्मेलने सङ्घस्य विविधेषु आयामेषु—सामाजिके, शैक्षणिके, सेवायाम्, सांस्कृतिके च कार्येषु—विमर्शः भविष्यति।
तेन उक्तं यत् देशस्य वर्तमान-सामाजिक-राजनीतिक-स्थितेः विषयेऽपि गहनं चिन्तनं मननं च भविष्यति। एतस्मिन्नवसरे “पञ्चपरिवर्तन” इत्यस्य प्रमुखस्य अभियानस्य विषये विशेषचर्चा भविष्यति। आंबेकरः अवदत्—सङ्घस्य शताब्दिवर्षे एकलक्षात् अधिकेषु स्थानेषु सङ्घकार्यं प्रसारितुं लक्ष्यं निर्धारितम् अस्ति। अस्य लक्ष्यस्य पूर्त्यर्थं नवम्बर् २०२५ तः जनुवरि २०२६ पर्यन्तं “घर-घर-संपर्क-अभियान” नामकः कार्यक्रमः सञ्चालितः भविष्यति।
अस्मिन् अभियानकाले स्वयंसेवकाः समाजस्य सर्वैः वर्गैः सह मिलित्वा सङ्घकार्यस्य उद्देशस्य च विषये जनान् अवगमयिष्यन्ति। सङ्घसम्बद्धं साहित्यं वितरयिष्यन्ति, जागरूकताकार्यक्रमांश्च आयोजयिष्यन्ति। पञ्चदशात् त्रिंशद्वर्षपर्यन्तं युवानः राष्ट्रनिर्माणे, सामाजिककार्येषु च सम्मिलितुं प्रेरयिष्यन्ते। शिक्षा, स्वास्थ्य, स्वावलम्बनक्षेत्रेषु च सेवाकार्याणि नूतनां गतिं प्राप्स्यन्ति।
अखिलभारतीयप्रचारप्रमुखस्य वचनेन, एतेषां सर्वेषां योजनानां मूलं तत्त्वं “व्यक्तिनिर्माणात् समाजनिर्माणं, समाजनिर्माणात् राष्ट्रनिर्माणम्” इति भावना अस्ति। सङ्घस्य विश्वासः अस्ति यत् संस्कारितः संगठितश्च समाजः एव सशक्तराष्ट्रस्य आधारः भवेत्।
पञ्चपरिवर्तनम् – सामाजिकनवजागरणमार्गःसङ्घेन आगामीकार्यकाले “पञ्चपरिवर्तन-अभियानं” नामकः प्रमुखः कार्यक्रमः स्वीकृतः अस्ति। एषः पञ्चसूत्रात्मकः सामाजिकः उपक्रमः अस्ति, यस्य उद्देश्यं व्यक्ति–कुटुम्ब–समाज–समग्रोत्थानं कर्तुम् अस्ति।
आंबेकरस्य अनुसारम्—एते क्षेत्राणि पञ्चपरिवर्तनस्य अन्तर्गतं भवन्ति—१. सामाजिकसमरसता — जातिभेदं निरस्य समाजे एकता–समानता–सौहार्दस्य भावना सुदृढीकरणम्।२. कुटुम्बप्रबोधनम् — पारिवारिकमूल्यानां परम्पराणां संस्काराणां च संरक्षणं प्रसारणं च, येन परिवारः समाजस्य मूलएकिका इव स्थिरो भवेत्।३. पर्यावरणसंरक्षणम् — जल–वायु–भूमेः संरक्षणार्थं जनजागरणं, स्थानीयरूपेण ठोसकार्यं च।४. स्वदेश्याचारः — स्वदेशीउत्पादानां प्रोत्साहनं कृत्वा आत्मनिर्भरभारतभावनां दृढीकरणम्।५. नागरिककर्तव्यपालनम् — नागरिकेषु राष्ट्रे प्रति उत्तरदायित्वभावनां, कर्तव्यबुद्धिं च जागरयितुम्।
एते सर्वे कार्याः शताब्दिवर्षे स्वयंसेवकैः विशेषतया कर्तव्याः।
हिन्दूसम्मेलनं नागरिकसंवादश्चआंबेकरः अवदत्—सङ्घस्य आगामीयोजनासु “हिन्दूसम्मेलनं” “प्रमुखनागरिकसंवादः” च विशेषमहत्त्वं वहतः। शताब्दिवर्षकाले देशस्य विभिन्नभागेषु हिन्दूसम्मेलनानि आयोजितानि भविष्यन्ति, यस्य उद्देश्यं हिन्दूसमाजे एकता, सद्भाव, भारतीयसंस्कृतेः गौरवभावनां च वर्धयितुम्।
प्रबुद्धनागरिकैः सह संवादकार्यक्रमाः अपि आयोजयिष्यन्ते। एते संवादाः जिलास्तरे भविष्यन्ति, यत्र राष्ट्रहितसंबद्धविषयेषु विचारविमर्शः भविष्यति।
आंबेकरस्य अनुसारम्—एतेषां संवादानां उद्देश्यं राष्ट्रीयदृष्टिकोणं सर्ववर्गेषु प्रसारितुं, सामूहिकचिन्तनं च विकसितुं अस्ति।
शताब्दिवर्षस्य कार्यक्रमानां निमित्तं सरसङ्घचालकः, सरकार्यवाहः, सहसरकार्यवाहः, अखिलभारतीयकार्यविभागप्रमुखाः, राष्ट्रियकार्यकारिणीसदस्याश्च सर्वे वर्षपर्यन्तं देशस्य विभिन्नस्थानेषु प्रवासयोजनां कृतवन्तः।
आंबेकरः विशेषतया गुरूतेगबहादुरमहात्मानं स्मृत्वा उक्तवान्—सङ्घः तेषां ३५०तमं बलिदानदिवसं आचरति। ते हि हिन्दुधर्मस्य रक्षणार्थं स्वजीवनं अर्पितवन्तः। अस्मिन् बैठके गुरूतेगबहादुरजी, भगवान् बिरसामुण्डा च सम्बन्धिनि विशेषवक्तव्ये सङ्घेन प्रकाश्येते। तयोः जयन्त्योर् देशव्यापकेन विशेषकार्यक्रमाः आयोजयिष्यन्ते।
एकस्मिन् प्रश्नोत्तरसमये आंबेकरः उक्तवान्—अस्मिन् उपवेशने देशस्य समाजस्य च वर्तमानस्थितेः विषये सर्वे स्वानुभवान्, जानकारीं च साझां करिष्यन्ति। सः स्पष्टं अकथयत्—सङ्घस्य लक्ष्यं न किञ्चिद् राजनैतिकदिशायां, अपितु सामाजिकोत्थाने राष्ट्रपुनर्निर्माणे च निहितम्।
सङ्घस्य स्थापना १९२५ तमे वर्षे विजयदशमीदिनाङ्के नागपुरे अभवत्। तस्मात् आरभ्य अद्यावत् सङ्घेन समाजे संगठनस्य, सेवायाः, संस्कारस्य च संदेशः प्रसारितः। अधुना यदा सङ्घः स्वशताब्दिवर्षं प्राप्नोति, तदा तस्य दृष्टिः भविष्याभिमुखी अस्ति—यत्र भारतं आत्मनिर्भरं, समरसं, संगठितं च भविष्यति।
---------------
हिन्दुस्थान समाचार