Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 28 अक्टूबरमासः (हि.स.)।राज्यसभाया सदस्या स्वाति मालीवाल नाम्नी मङ्गलवारे आमजनदलस्य (आप्) राष्ट्रीयसंयोजकं अरविन्दं केजरीवालं प्रति पत्रं लिखित्वा पञ्जाबराज्यस्य मुख्यमन्त्रिणः भगवन्तमान् इति नाम्नः उपरि आरोपितानां गम्भीराणां आरोपाणां विषयेषु स्वतन्त्रनिष्पक्षपरीक्षणस्य माग्याः कृता।
सा सांसदः मालीवाल पत्रे लिखति— “भगवन्तमानस्य पुरातनपरिचितः” इति स्वयम् आवेदयन् जगमनसमरा इति नामकः पुरुषः किञ्चित् आपत्तिजनकानि दृश्यरूपाणि सामाजिकमाध्यमेन प्रसारितवान्। तेन उक्तं यत् तस्य समीपे तादृशानि अन्यानि अपि दृश्यानि सन्ति, यत्र केषुचित् दृश्येषु श्रीगुरुनानकदेवस्य तथा श्रीगुरुगोविन्दसिंहस्य पवित्रचित्रयोः अपमानः कृतः दृश्यते इति।*
मालीवाल लिखति— “यदि एतेषां दावानां एकं प्रतिशतं अपि सत्यं स्यात्, तर्हि एषः अत्यन्तगम्भीरः बेअदबी (असत्कारः) इति विषयः भवेत्, यः कोटिशः जनानां धार्मिकभावनाः आहत्य दहतुं शक्नुयात्।”
सा उक्तवती— आरोपेषु अनुसन्धानं कर्तुं स्थाने पञ्जाबपुलिस् तानि दृश्यानि प्रसारितवन्तं पुरुषमेव अभियुक्तं कृत्वा प्रकरणं निबद्धवती, अतः अस्य विषयस्य निष्पक्षता सन्दिग्धा भवति इति।
मालीवाल पृष्टवती— “यदा मुख्यमन्त्री च गृहमन्त्री च उभौ अपि भगवन्तमान एव स्तः, तर्हि पञ्जाबपुलिसतः निष्पक्षपरीक्षणं कथं अपेक्षितं स्यात्?”
तया मागितम्— अरविन्दः केजरीवालः सर्वाणि दृश्यानि शीघ्रं संग्रहीत्वा तेषां अनुसन्धानं स्वतन्त्रसंस्था, यथा केन्द्रीयअनुसन्धानब्यूरो (CBI), इत्यादिभिः करवेत्।
सा लिखति— “यदि दृश्यानि यथार्थानि स्युः, तर्हि मुख्यमन्त्रिणं प्रतिकठोरं दण्डनं कार्यम्। यदि तानि कृत्रिमानि (AI-जनितानि) वा मिथ्यानि स्युः, तर्हि तान् प्रसारितवन्तः जनाः दण्ड्याः।
मालीवाल एवम् उक्तवती— “एतस्मिन्न् विवादे दलस्य मौनं अत्यन्तं चिन्ताजनकं दृश्यते। एषः विवादः दलस्य कीर्तिं हानिं गमयति। जनाः सत्यं ज्ञातुम् इच्छन्ति। एतादृशे समये मौनता न पञ्जाबजनानां प्रति युक्ता, न च आमजनदलस्य कार्यकर्तॄणां प्रति।”
--------------
हिन्दुस्थान समाचार