Enter your Email Address to subscribe to our newsletters

नवदेहली, 28 अक्टूबरमासः (हि.स.)। सूर्योपासनायाः महापर्वणि षष्ठ्याः अद्य समापनं भवति। बिहारराज्ये झारखंडराज्ये च सहिते समग्रदेशे षष्ठीपूजा उत्साहेन श्रद्धया च सह आचर्यते। उपासकानां कृते तीरेषु विशेषव्यवस्थाः कृताः सन्ति। उदितसूर्याय “उषाअर्घ्यं” समर्पयितुं प्रभाते एव श्रद्धालवः तीरेषु आगताः सन्ति।
राष्ट्रीयराजधानी दिल्लीस्थे आई.टी.ओ. यमुना–बैराजे जगमद्भिः हस्तिघाटे श्रद्धालुभिः उदितसूर्याय अर्घ्यं दत्तम्। षष्ठीपूजायाः अन्तिमदिने उदितसूर्याय अर्घ्यं दातुं श्रद्धालवः शास्त्रीघाटे समागता अभवन्। तीरेषु उषाअर्घ्यदानस्य सह चतुर्दिवसीया षष्ठीपूजा सम्पन्ना अभवत्।
बिहारराजधानी पटनायाम् उषाअर्घ्यदानाय जनाः कलेक्ट्रेटघाटे समागता अभवन्। उत्तरप्रदेशस्य गोरखपुरे राप्तीनद्यां स्थिते गुरु–गोरखनाथघाटे अपि बहुसंख्यकाः श्रद्धालवः उदितसूर्याय अर्घ्यदानाय आगताः। वाराणस्याः घाटेषु अपि भीड् आसीत्। सूर्यदेवोपासनायै समर्पितं चतुर्दिवसीयं षष्ठी–महापर्व शनिवासरे “नहाय–खाय” इति पवित्रानुष्ठानेन आरब्धम् आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता