अक्षय नवम्याम् आमलकी वृक्षस्य भविष्यति पूजा, गुरुवासरे काश्यां समाचरिष्यते पर्व
— जनश्रुतिरस्ति यत् अस्मिन् दिने सतयुगस्य जातःआरंभः वाराणसी, 29 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य धार्मिकनगरी वाराणस्यां गुरुवासरे पारम्परिकश्रद्धया उल्लासेन च अक्षयनवमीपर्व सम्यक् उत्सवभावेन आचर्यते। कार्तिकशुक्लपक्षस्य नवमीतिथौ एषः पर्वः म
आंवले के वृक्ष की पूजा करती महिलाए


— जनश्रुतिरस्ति यत् अस्मिन् दिने सतयुगस्य जातःआरंभः

वाराणसी, 29 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य धार्मिकनगरी वाराणस्यां गुरुवासरे पारम्परिकश्रद्धया उल्लासेन च अक्षयनवमीपर्व सम्यक् उत्सवभावेन आचर्यते। कार्तिकशुक्लपक्षस्य नवमीतिथौ एषः पर्वः मन्यते। धार्मिकदृष्ट्या अस्य आचरणेन अनन्तं पुण्यफलम् अवाप्यते इति विश्वासः। अस्मिन् दिने भक्ताः आमलकवृक्षस्य विधिवत् पूजनं कुर्वन्ति, तस्याधः अहारं (गोहरी) निर्माय प्रसादरूपेण ग्रह्णन्ति च।

पुराणेषु उक्तं यत् अक्षयनवम्यां दिवसे भगवाने विष्णुः आमलकवृक्षे निवासं कृतवान्। तस्मात् अस्य वृक्षस्य पूजा अत्यन्तं शुभफलप्रदा मन्यते। अस्मिन् दिने यत् दानं, जपः, तपः, पूजनं वा क्रियते तत् फलम् अक्शयं भवति, अतः अस्य नाम “अक्षया” नवमी इति विख्याता।

ज्योतिषाचार्यः रविन्द्रतिवारी इत्याख्यः आह – अस्मिन् दिने श्रीविष्णोः लक्ष्म्याश्च आराधनया जीवने समृद्धिः, सौभाग्यं, धर्मस्य स्थिरता च लभ्यते। धार्मिकग्रन्थेषु अपि निर्दिष्टं यत् अस्यां तिथौ एव सतयुगस्य आरम्भः अभवत्। अतः एषः दिवसः सत्यस्य, धर्मस्य, नूतनयुगस्य च आरम्भस्य प्रतीकः इति मान्यते।

अस्मिन् अवसरे स्नानव्रतपूजादानादीनां विशेषमहत्त्वं दर्शितम्। भक्ताः प्रातःकाले स्नानं कृत्वा आमलकवृक्षस्य पूजनं कुर्वन्ति, फलपुष्पदीपादीन्यर्पयन्ति च। ततः परिवारसहितं वृक्षतले भोजनं कुर्वन्तः प्रसादवितरणं अपि यथाविधि करोति।

सामाजिककार्यकर्ता-समाचारपत्रकारश्च रामयशमिश्र इत्याख्यः उक्तवान् – अधुनातनेषु नगरेषु शीघ्रं क्षीयमाणानां वृक्षाणां मध्ये पूजायै आमलकवृक्षस्य उपलब्धिः दुर्लभा जाता। काश्यां यदि वयं पौधरोपणं संकल्परूपेण स्वीकरोमि तर्हि नगरं पुनः आनन्दकाननवनवत् हरितमयं भविष्यति।

ते अपि उक्तवन्तः यत् वर्षे 2006 तमे अस्सीक्षेत्रे गोयनकसंस्कृतपाठशालायाः प्राङ्गणे सिद्धेश्वरमहादेवमन्दिरस्य समीपे ते आमलकस्य पौधं रोपितवन्तः। दीर्घवर्षपर्यन्तं तस्य रक्षणपालनपूर्वकं समर्पणेन च तत् पौधं विशालवृक्षत्वं प्राप्तम्। गुरुवासरे अक्षयनवम्यवसरे तस्य वृक्षस्य अधः श्रद्धालवः पूजनं भोजनं च करिष्यन्ति।

रामयशमिश्रः अन्ते अवदत् – अक्षयनवमी केवलं धार्मिकः उत्सवः न, किन्तु प्रकृतिसंरक्षणस्य आध्यात्मिकसमृद्धेः च संदेशवाहिनी अपि अस्ति।

हिन्दुस्थान समाचार