Enter your Email Address to subscribe to our newsletters

नवदेहली, 29 अक्तुबरमास: (हि.स.) — भारतीयजनतापक्षस्य (भाजपा) प्रमुखनिर्वाचनप्रचारकः, ओजस्वीवक्ता च, केन्द्रगृहसहकारितामन्त्री च अमितशाहः अद्य बिहारराज्ये त्रिषु स्थलेषु जनसभां संबोधयिष्यति। सः जनान् प्रति भाजपानीतराष्ट्रीयजनतान्त्रिकगठबंधनस्य (राजगस्य) प्रत्याशिनः विजयीकरणाय आह्वानं करिष्यति।
भाजपायाः “एक्स्” सञ्चारमाध्यमे प्रकाशितकार्यक्रमानुसारं अमितशाहः सपादद्वादशवादने (१२.१५) दरभङ्गाजनपदस्य अलीनगरनामके स्थले पोहद्दीबेला-उच्चविद्यालयप्राङ्गणे प्रथमं जनसभां संबोधयिष्यति। ततः सार्धएकहोरानन्तरं अपराह्णे सार्धैकवादने (१.३०) समस्तिपुरजनपदस्य रोसडास्थिते कर्पूरीक्रीडाङ्गणे द्वितीयां सभां करिष्यति। पुनश्च एकहोरानन्तरं त्रिवादने (३.००) बेगूसरायजनपदस्य भगवानपुरे तृतीयां सभां संबोधयिष्यति।
अस्मिन् बिहारविधानसभानिर्वाचने अमितशाहः प्रचारसमये महागठबंधननेतॄणां कठोरविमर्शं करोति। पञ्चविंशतितमे अक्तुबरमासे तेन उक्तं यत् आगामी षष्ठ्यां तिथौ बिहारराज्ये प्रथमः मतदानचरणः भविष्यति। अस्य निर्वाचनस्य प्रयोजनं तत् यत् बिहारं पुनः “जङ्गलराज” इति स्थितिं न प्राप्नुयात्। लालूराबडी-शासनकाले बहूनि वर्षाणि जङ्गलराज एव प्रवृत्तः। तस्मिन् काले हत्याः, अपहरणानि, नरसंहाराश्च नित्यं भवन्ति स्म। एकप्रकारेण अस्माकं हरितभरितं बिहारराज्यं नष्टं कृतम्।
तेन उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना निर्णयः कृतः — “विकासः अपि, विरासत: अपि”। बिहारराज्ये कृत्रिमबुद्धेः दत्तांशस्य च नूतनं युगं वयम् आरम्भं करिष्यामः। बिहारराज्ये महान्तः उद्योगशालाः, कृष्यधारितप्रक्रण-उद्योगाः स्थापयिष्यन्ते। तस्मात् कृषकाणां आयः वर्धिष्यते, औद्योगिकविकासः अपि भविष्यति। न केवलं तत्, अस्मिन् बिहारनिर्वाचने द्वौ एव चरणौ भविष्यतः। लालूराबडीराज्ये तु विधिनियमनव्यवस्था एवात्यन्तं दुष्टा आसीत्, अतः षड्भिः चरणैः निर्वाचनं कर्तव्यम् आसीत्।
अमितशाहः अवदत् — “अहं युष्मान् प्रति वदामि यत् मोदीनीतेः शासनकाले षड्भिः चरणैः स्थाने द्वौ एव चरणौ भवतः। अस्मिन् काले पुनः एनडीए–सर्वकारं स्थापयत। अग्रिमकाले एकेनैव चरणेन निर्वाचनं भविष्यति।”
तेन उक्तं यत् अस्मिन् निर्वाचनकाले एकस्मिन् पार्श्वे एनडीए–संघटनस्य पञ्च दलाः, यथा पाण्डवाः पञ्च, तथा एकत्रिताः संगृहीताः सन्ति। महागठबन्धने तु प्रवेशपत्रविभागे एव कलहः प्रवृत्तः। ते न नेतारः, न नियतिः, न नेतृत्वम् अपि धारयन्ति। वयं तु नीतीशासनस्य नेतृत्वे निर्वाचनं युध्यावहे।
हिन्दुस्थान समाचार / अंशु गुप्ता