Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 29 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा महोदयः अवदत् यत् एकस्मिन् काले अस्थिर-नीतिनां सुरक्षा-संबद्ध-परिस्थितीनां च कारणेन निवेशकाः असमप्रदेशं प्रति आगन्तुं संकोचं कुर्वन्ति स्म, किन्तु अद्य असमः भारतस्य विकासस्य प्रमुख-केंद्रेषु एकं जातम् अस्ति।
मुख्यमन्त्रिणा उक्तं यत् आन्तरिकं वैश्विकं च मागं पूर्तुं असम-पेट्रोकेमिकल्स्-लिमिटेड् (ए॰पी॰एल्) नामकस्य संस्थायाः मिथेनॉल्-फॉर्मेलिन्-उत्पादनस्य विस्तारः क्रियते। तस्मै राज्य-सरकारा द्विसहस्र-कोटि-रूप्यकाणां अधिकं निवेशं करोति।
ते अवदन् यत् एषः निवेशः केवलं औद्योगिक-विकासं न प्रवर्धयिष्यति, अपि तु नूतनान् रोजगार-अवसरान् अपि सृजिष्यति, असमं च पूर्वोत्तर-भारतात् एकं सशक्तं औद्योगिकं गन्तव्यं करिष्यति।
हिन्दुस्थान समाचार