ईरानीपर्यटकानां षोडशसदस्यीयदलेन पाण्डुलिपिपुस्तकालयस्य अवलोकनं कृतम्
भारतईरानयोः सम्बन्धान् दर्शयति शैक्षिकभ्रमणम् : पर्यटकः प्रयागराजः, 29 अक्टूबरमासः (हि.स.)। संस्कृतिप्रसारणस्य निमित्तं भारतं प्राप्ता ईरानी–पर्यटकानां षोडशसदस्यीयदला बेलाल् अस्दकस्य नेतृत्वे प्रयागराजजिले निवसन् राजकीय–पाण्डुलिपि–पुस्तकालये स्वस
अवलोकन करते ईरानी पर्यटक


भारतईरानयोः सम्बन्धान् दर्शयति शैक्षिकभ्रमणम् : पर्यटकः

प्रयागराजः, 29 अक्टूबरमासः (हि.स.)। संस्कृतिप्रसारणस्य निमित्तं भारतं प्राप्ता ईरानी–पर्यटकानां षोडशसदस्यीयदला बेलाल् अस्दकस्य नेतृत्वे प्रयागराजजिले निवसन् राजकीय–पाण्डुलिपि–पुस्तकालये स्वस्य सांस्कृतिक–विरासतस्य समीपतोऽवलोकनं कृत्वा प्रसन्नचित्ताः अभवन्।

बुधवासरे पुस्तकालये पाण्डुलिपि–अधिकारी गुलाम् सरवरस्य निर्देशनम् अनुसृत्य प्राविधिक–सहायिका फारसी–शास्त्र–विशारदा डॉ॰ शाकिरा तलत् इत्यनेन फारसी–भाषायाः द्वादशाधिकाः पाण्डुलिपयः दर्शिताः। ततः प्राविधिक–सहायकः संस्कृत–विशारदः हरिश्चन्द्रदुबे नामकः तेषां संस्कृत–पाण्डुलिपीनाम् अवलोकनं कृतवान् तासां च महत्त्वं विवृणोत्। पाण्डुलिपीनां दर्शनानन्तरं दलेन संयुक्तरूपेण वक्तव्यं प्रदत्तम्।

ते अवदन् — “अद्य अस्माभिः प्रयागराजे स्थितस्य राजकीय–पाण्डुलिपि–पुस्तकालयस्य भ्रमणस्य अमूल्यः अवसरः प्राप्तः। एषा यात्रा अस्माकं शैक्षणिक–जीवनेषु अत्यन्तं स्मरणीया जाता। यतः अस्माभिः मुग़ल–कालीनानां फारसी–पाण्डुलिपीनां अद्भुतं संग्रहं दृष्टवान्तः। दुर्भाग्येन एताः कृतयः अद्यापि ईरानी–विद्वद्भ्यः अपरिचिताः सन्ति। अस्मिन अमूल्ये संग्रहे अवेस्ता–ग्रन्थः अन्ये च प्राचीन–ईरानी–भारतीय–ग्रन्थाः मुद्रिताः हस्तलिखिताश्च रूपे दृष्टाः, ये ईरान–भारतयोः मध्ये गूढं ऐतिहासिक–सांस्कृतिकं सम्बन्धं प्रकाशयन्ति।”

ते डॉ॰ बिलाल् अस्दक्, डॉ॰ शाकिरा तलत्, गुलाम् सरवर इत्येषां प्रति हार्दिकं कृतज्ञतां व्यक्तवन्तः, येषां सहयोगेन एवं शैक्षणिकं भ्रमणं सम्भवम् अभवत्। निःसंशयम्, अस्य निधेः विद्वत्समाजे परिचयेन मुग़लयुगीनस्य फारसीसाहित्यबौद्धिकविरासतस्य अनुसन्धानाय नवमार्गाः उद्घाट्यन्ते।

“इमाम्–खुमैनी–अन्तरराष्ट्रीय–क़ज़्विन–विश्वविद्यालये फारसी–भाषा–साहित्ययोः प्राध्यापिका श्रीमती शिरीन् सादिग्” अवदत् — “अस्माकं सांस्कृतिक–यात्रायां राजकीय–पाण्डुलिपि–पुस्तकालयस्य पाण्डुलिपीनां दर्शनात् ज्ञातं यत् भारत–सरकारः प्राचीन–कलाकृतिनां संरक्षणे अत्यन्तं सजगः अस्ति। अस्मान् अस्य ज्ञानेन उत्साहः प्रसन्नता च अभवन्। एषा यात्रा स्पष्टं दर्शयति यत् ईरान–भारतयोः सम्बन्धः इतिहासे गूढरूपेण निहितः अस्ति, यः सांस्कृतिक–साम्येषु आधारितः अस्ति। एषा अमूल्या विरासत् अद्यतन–युगे द्वयोः राष्ट्रयोः सम्बन्धान् सुदृढान् करिष्यति।”

ते आशां व्यक्तवन्तः यत् एतेषां सांस्कृतिकविरासत–कार्यक्रमानां प्रसारेण ईरानदेशात् अधिकाः शोधार्थिनः शैक्षणिक–भ्रमणाय आगमिष्यन्ति, एतासां साझा–धरोहराणां विषये अनुसन्धानं कृत्वा इतिहासे नवं अध्यायं रचयिष्यन्ति, च द्वयोः राष्ट्रयोः सांस्कृतिक–सेतुं अधिकं दृढं करिष्यन्ति। अस्माकं मनोकामना अस्ति यत् एषा सहविरासत् द्वयोः राष्ट्रयोः दीर्घकालिकं सम्बन्धं प्रतिदिनं सुदृढं करोति, संवाद–सहयोगयोः च नवसंधीन् उद्घाटयति।

षोडशसदस्यीय–दले मासूम् तगा दुसी, मेंहदी फाजली, मेंहदी बाबई, श्रीमती शिरीन् सडेगी, नाज़नीन हैदरी, एम॰ आर॰ मोहम्मद् मोहम्मद् तगवा, जेना, मुस्तफा अब्बासी, फ़ोरजाने, अब्बास् अस्नासरी, ज़ैनब, मरियम इत्यादयः सन्ति। एते तारीख्–ए–आलमगीर्, गुलिस्तान्–ए–सादी, उर्दू–भाषायां भागवत–रामायण–महाभारत–कुरान्–शरीफ़्, आइना–ए–अकबरी, वाल्मीकिरामायणम्, चतुर्फुटं तोगरं, खतूत्–ए–आलमगिरी, मुग़लराजानां फ़रमान्, रामायण–मसीही, तारीख्–ए–हिन्द् इत्यादीन् ग्रन्थान् अवलोकितवन्तः। पर्यटकैः उत्सुकतावशात् पाण्डुलिपीनां चित्राणि अपि कक्षे गृहीतानि। पाण्डुलिपि–अधिकारी गुलाम् सरवरः आगत–अतिथीनां प्रति स्वागतं कृत्वा आभारं व्यक्तवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता