भारत–नेपालयोः मध्ये ४०० के.वी. विद्युत्–परियोजनासम्बन्धे एकः सन्धिः सम्पन्नः
नवदेहली, 29 अक्टूबरमासः (हि.स.)। नेपालस्य ऊर्जा–जलसंसाधन–सिंचाईमन्त्री कुलमान् घिसिंग् इत्यनेन बुधवासरे नवदेहल्यां भारतस्य केन्द्रीयविद्युत्–गृह–नगरीयकार्यमन्त्री मनोहरलालेन सह भारतनेपालयोः सीमापार–विद्युत्–व्यापारं, क्षेत्रीय–ग्रिड–संयोजनं, जलविद्
भारत और नेपाल के बीच हुए 400 केवी बिजली परियोजनाओं पर समझौते


नवदेहली, 29 अक्टूबरमासः (हि.स.)। नेपालस्य ऊर्जा–जलसंसाधन–सिंचाईमन्त्री कुलमान् घिसिंग् इत्यनेन बुधवासरे नवदेहल्यां भारतस्य केन्द्रीयविद्युत्–गृह–नगरीयकार्यमन्त्री मनोहरलालेन सह भारतनेपालयोः सीमापार–विद्युत्–व्यापारं, क्षेत्रीय–ग्रिड–संयोजनं, जलविद्युत्–परियोजनानां विकासं च विषयीकृत्य विस्तीर्णा चर्चा कृता। अस्याः चर्चायाः अवसरः एव उभययोः देशयोः मध्ये द्वे प्रमुखे विद्युत्प्रसारण–परियोजनायोः विषये संधी अपि सम्पन्ने।

केन्द्रीय–विद्युत्–मन्त्रालयस्य अनुसारं भारतस्य सार्वजनिक–क्षेत्रस्थस्य महारत्न–संस्थानस्य पावरग्रिड् निगम–लिमिटेड् (Power Grid) इत्यस्य तथा नेपाल–विद्युत्–प्राधिकरणस्य (NEA) मध्ये संयुक्त–उद्यम–अंशधारक–सन्धिः (JV & SHA) इति अभिलेखयोः हस्ताक्षराः कृता। एतेषां समझेतानां अन्तर्गतं भारत–नेपालयोः मध्ये द्वे संयुक्त–उद्यम–संस्थे स्थापयिष्येते, या इनरुवा (नेपालम्)–न्यू–पूर्णिया (भारतम्) तथा लमकि (दोधरा) (नेपालम्)–बरेली (भारतम्) इत्येतयोः मध्ये ४०० के.वी. क्षमतायुक्तयोः सीमापार–विद्युत्–परियोजनयोः निर्माणं करिष्यतः।

एते उभे सीमापार–विद्युत्–प्रसारण–सम्बन्ध–परियोजनयोः सम्पन्नत्वेन भारत–नेपालयोः मध्ये विद्युत्–क्षमतावृद्धिः भविष्यति। अनेन क्षेत्रीय–ऊर्जा–सुरक्षा सुदृढा भविष्यति, उभयोः देशयोः विद्युत्–ग्रिडयोः स्थैर्यं लचीलकता च वर्धिष्येते, आर्थिक–विकासाय नूतना गतिर्भविष्यति च।

संवादकाले उभौ मन्त्री ऊर्जा–क्षेत्रे प्रवर्तमानस्य सहयोगस्य प्रगतेः समीक्षा कृतवन्तौ, आगामिनः दिशां च सम्बन्धेन विचारविमर्शं कृतवन्तौ।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता