भारत-चीनी सेनानां मध्ये 23तमे भ्रमणस्य वार्ता, एलएसीद्वारा प्रबंधने चर्चा
- भारतीय सीमायाः मोल्दो-चुशुले कोर कमांडर स्तरस्य उपवेशनं मैत्रीपूर्णं सौहार्दपूर्णे वातावरणे जातम् नवदिल्ली, 29 अक्टूबरमासः (हि.स.)।दीर्घकालानन्तरं भारत-चीनयोः वरिष्ठसेनानायकाः भारतीयसीमायां मोल्दो–चुशुल सीमासंमेलनस्थले कोर्-कमाण्डर्-स्तरस्य त्र
भारत-चीनी ध्वज (प्रतीकात्मक )


- भारतीय सीमायाः मोल्दो-चुशुले कोर कमांडर स्तरस्य उपवेशनं मैत्रीपूर्णं सौहार्दपूर्णे वातावरणे जातम्

नवदिल्ली, 29 अक्टूबरमासः (हि.स.)।दीर्घकालानन्तरं भारत-चीनयोः वरिष्ठसेनानायकाः भारतीयसीमायां मोल्दो–चुशुल सीमासंमेलनस्थले कोर्-कमाण्डर्-स्तरस्य त्रयोविंशतितमं चरणं समारभन्त। अस्मिन्नेव संमेलनकाले उभयपक्षैः वास्तविकनियन्त्रणरेखायाः (एल.ए.सी.) पश्चिमभागे तणाव-नियन्त्रणं स्थिरतायाश्च पालनं विषये विस्तीर्णा चर्चा कृता। उभाभ्यां पक्षाभ्यां चीन-भारतयोः सीमासम्बद्धेषु विषयेषु गम्भीरो संवादः कृतः।

विदेशमन्त्रालयेन (एम्.ई.ए.) प्रदत्ते वक्तव्ये उक्तं यत् भारत-चीन कोर्-कमाण्डर्-स्तरसंमेलनस्य त्रयोविंशतितमः दौरः २५ अक्टोबर् दिनाङ्के चुशुल्–मोल्दो सीमासंमेलनस्थले आसीत्। तस्मात् पूर्वं १९ अगस्ते जातस्य विशेषप्रतिनिधिसंवादस्य चतुर्विंशतितमाद् दौरात् परं पश्चिमभागे जनरल्-स्तरीयतन्त्रस्य एषः प्रथमः सम्मेलनः आसीत्। संवादः सौहार्दपूर्वकं मैत्रीभावेन च सम्पन्नः।

चीनरक्षामन्त्रालयस्य मतानुसारं वार्ताकाले उभयपक्षैः चीन–भारतसीमायाः पश्चिमभागे व्यवस्थापनं विषये ‘सक्रियः गम्भीरश्च संवादः’ कृतः, च संवेदनशीलप्रदेशेषु तणाव-अपचये उपायान् विषये च विचारविनिमयः सम्पन्नः। वक्तव्ये उक्तं यत् उभयप्रतिनिधिमण्डलेन सैन्य-राजनयिकमार्गैः निरन्तरं संवादं सञ्चारं च स्थापयितुं सहमतिर्जाता।

उभौ देशौ सैन्यराजनयिकमार्गेण सञ्चारसंवादौ निरन्तरं कृत्वा सीमाक्षेत्रेषु शान्तिं स्थैर्यं च संयुक्ततया रक्षितुं सहमतौ जातौ। अस्य वार्तायाः मुख्यः उद्देश्यः आसीत् पूर्वलद्दाखप्रदेशे २०२० तः प्रभृति प्रवृत्तं सीमातणावं न्यूनीकर्तुम्, यतः १५/१६ जून् २०२० तमे दिवसे गल्वान्-घाट्यां जातेन रक्तसंघर्षे उभयपक्षयोः सैनिकानां मृत्युः अभवत्।

गल्वान्-संघर्षानन्तरं २०२४ तमे वर्षे कजान् नगरे सम्पन्ने षोडशमे ब्रिक्स्-शिखर-सम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना च चीनराष्ट्रपतिना शी-जिन्पिङेन च कृते मिलने द्विपक्षसम्बन्धसुधारणायाः चेष्टा तीव्रता प्राप्ता। तस्मिन्नेव वर्षे अगस्तमासस्य आरम्भे भारत-चीनयोः सीमाविवादविषये विशेषप्रतिनिधिनां चतुर्विंशतितमः संवादः सम्पन्नः, यस्मिन् द्विपक्षीयसम्बन्धवर्धनं सीमातणावशमनं च विषये सहमतिः प्राप्ता।

प्रधानमन्त्री मोदी २०१८ तः अनन्तरं प्रथमवारं ३० अगस्ते चीनदेशं तियान्जिनं प्राप्तः, यत्र शङ्घाई-सहयोग-संस्थानस्य शिखर-सम्मेलने भागग्रहणात् पूर्वं चीनराष्ट्रपतिना जिन्पिङेन च साकं मिलित्वा उक्तवान् यत् — “वयं परस्पर-विश्वास-आदर-संवेदनशीलता-आधारेण स्वसम्बन्धान् अग्रे नेतुं प्रतिश्रुताः स्मः।”

उभयोः नेतृभ्यां विस्तीर्णे संवादे द्विपक्षीयसम्बन्धेषु केन्द्रितचर्चा कृता, यः सम्बन्धः पूर्वलद्दाखे चतुर्वर्षातिरिक्तकालपर्यन्तं प्रवृत्तेन सीमातणावेन अत्यन्तं तिव्रः जातः।

--------------

हिन्दुस्थान समाचार