पूर्वः इंग्लैण्ड्‌देशीयः तीव्रगतिकन्दुकप्रक्षेपकः जेम्स् एण्डरसन् नामकः प्रतिष्ठितः क्रिकेट्‌क्रीडकः नाइटहुड् इति राजकीयसन्मानं प्राप्तवान्
लंदनम्, 29अक्टुबरमासः (हि.स.)। इङ्ग्लण्डदेशस्य प्रसिद्धः वेगकन्दुकक्षेपकः, तथा च राष्ट्रदलस्य सर्वाधिक–परीक्षा–विकेट्–ग्रहितः क्रीडकः जेम्स्–एण्डरसन् , मङ्गलवासरे विण्ड्सर्–कासल् विशेषे–समारोहे, राजकन्या ऐनी नाम्ना नाइट्–हुड् इत्यस्य उपाधिं प्रदत
इंग्लैंड के दिग्गज तेज गेंदबाज जेम्स एंडरसन


लंदनम्, 29अक्टुबरमासः (हि.स.)।

इङ्ग्लण्डदेशस्य प्रसिद्धः वेगकन्दुकक्षेपकः, तथा च राष्ट्रदलस्य सर्वाधिक–परीक्षा–विकेट्–ग्रहितः क्रीडकः जेम्स्–एण्डरसन् , मङ्गलवासरे विण्ड्सर्–कासल् विशेषे–समारोहे, राजकन्या ऐनी नाम्ना नाइट्–हुड् इत्यस्य उपाधिं प्रदत्ता।

43 वर्षीयाय एण्डरसनाय एषा उपाधिः क्रिकेट्–क्रीडायाम् अस्य उत्कृष्ट–योगदानस्य कृते प्रदत्ता।

एंडरसन् जुलाई–मासे 2024 तमे वर्षे लॉर्ड्स्–क्रीडाङ्गणे स्वस्य 21 वर्ष–दीर्घं अन्तर्राष्ट्रिय–जीवनं समाप्तवान्। सः 188 परीक्षण–स्पर्धासु 704 विकेट्–ग्रहणं कृतवान् — यः सर्वेषां वेगकन्दुकक्षेपकानां मध्ये श्रेष्ठतमः सङ्ख्या अस्ति। तस्मात् अग्रे केवलौ स्पिन्नरौ स्तः — मुथैया–मुरलीधरन् (800) तथा शेन–वॉर्न् (708)।

टेस्ट–क्रीडायाः अतिरिक्तम्, एण्डरसन् एकदिवसीय–अन्तर्राष्ट्रिय–क्रीडासु 269 विकेट्–ग्रहणं कृतवान्, यत् अद्यापि इङ्ग्लण्डस्य पक्षे रेकॉर्ड् अस्ति, यद्यपि सः स्वस्य अन्तिमम्ः एकदिवसीयं 2015 तमे वर्षे क्रीडितवान्।

अन्तर्राष्ट्रीय–क्रिकेट्–संन्यासात् अनन्तरम् अपि एंडरसन् 2024 तमे स्वस्य काउण्टी–क्लबं लङ्काशायरं कृते क्रीडनं अनुवर्तितवान्। सः प्रायः 10 वर्षात् अनन्तरं टी–20 क्रीडायाम् पुनरागत्य स्वदलं एजबेस्टन्–नाम्नि स्थले आयोजिते फाइनल्स्–डे इत्यस्मिन् पर्यन्तं नेतुं‌ महत् भूमिकाः पालितवान्।

एतेन सह तस्मै द् हंड्रेड्–लीग् इत्यस्मिन् मैन्चेस्टर्स्–ओरिजिनल्स्–नामक–दले वाइल्ड्–कार्ड्–संविदा अपि लब्धा। समाचारः अस्ति यत् एंडरसन् 2025 तमे ऋतौ अपि काउण्टी–क्रिकेट्–क्रीडायां सहभागितां विषये चर्चां करोति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता