Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 29 अक्टूबरमासः (हि.स.)। विन्ध्याचलमण्डले नवागतः मण्डलायुक्तः राजेशप्रकाशः गतरात्रौ मंगलवासरे एव स्वीयं कार्यभारं ग्रहीतुम् आगतः। पदभारग्रहणानन्तरं सः बुधवासरप्रातःकाले माता विन्ध्यवासिन्याः देव्याः दरबारं गत्वा दर्शनं पूजनं च अकरोत्।
दर्शनानन्तरं मण्डलायुक्तः पूर्वाह्णे दशवादने आयुक्तकार्यालयं आगतः, यत्र तेन अधिकृतैः सह औपचारिकं साक्षात्कारं कृतम्। अस्मिन्नेवावसरे जिलाधिकारी पवनकुमारगङ्गवारः, मुख्यविकासाधिकारी विशालकुमारः, अपरजिलाधिकारी अजयकुमारसिंहः, मुख्यराजस्वाधिकारी देवेंद्रप्रतापसिंहः, संयुक्तनिदेशकः कृषि विभागस्य डा॰ अशोकउपाध्यायः, संयुक्तनिदेशकः उद्योगविभागस्य वीरेंद्रकुमारः इत्येते अन्यैः अधिकारीभिः सह मण्डलायुक्तं भेटवन्तः तथा विभागीययोजनानां संक्षिप्तं विवरणं प्रस्तुतवन्तः।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता