Enter your Email Address to subscribe to our newsletters

नवदेहली, 29 अक्तुबरमासः (हि.स.) — भारतस्य आर्थिकराजधान्यां मुम्बईनगरे अद्य प्रधानमन्त्री नरेन्द्रमोदी भ्रमणं करिष्यति। सः सायं चतुर्वादने मुम्बय्यां
समुद्रीपारिस्थितिकीप्रणाली इत्यस्मिन् विषये प्रमुखहितधारिणां मुख्यसम्मेलनं संबोधयिष्यति। प्रधानमन्त्रिणः कार्यालयेन गतदिने प्रकाशिते वक्तव्ये एतत् सूचितम्। भारतीयजनतापक्षेण अपि प्रधानमन्त्रिणः अद्यतनं मुम्बईकार्यक्रमविवरणं स्वस्य “एक्स्” सञ्चारमाध्यमे प्रकाशितम्।
प्रधानमन्त्रिणः कार्यालयवक्तव्ये उक्तं यत्, प्रधानमन्त्री भारतसमुद्रीसप्ताहस्य (IMW) प्रमुखकार्यक्रमस्य ‘वैश्विकसमुद्री सीई मञ्चं’ अध्यक्षतां करिष्यति। अयं मञ्चः वैश्विकसमुद्रीसंस्थानां, प्रमुखनिवेशकारिणां, नीतिनिर्मातॄणां, नवप्रवर्तकानां, अन्तार्राष्ट्रीयसहभागिनां च मध्ये समुद्रीपारिस्थितिकीप्रणाली इत्यस्य भविष्यविषये विमर्शाय एकं प्रमुखं मंचं प्रदानं करोति।
वक्तव्यानुसारं, अयं मञ्चः सततसमुद्रीविकासे, आपूर्तिशृंखलायाः अनुकूलता , हरितनौवाहने, समावेशकनिलनीतिः (नीली-अर्थव्यवस्था) इत्येषां विषयाणां चर्चायाः कृते प्रमुखभूमिकां वहति। प्रधानमन्त्रिणः अस्मिन् सहभागिता ‘समुद्री अमृतकालदर्शनम् २०४७’ इत्यस्य अनुरूपं दीर्घदर्शिनं, भविष्योन्मुखं च समुद्रीपरिवर्तनं प्रति तस्याः गाढप्रतिबद्धतां दर्शयति।
एतेषां चतुर्णां रणनीतिकस्तम्भानां—बन्दरागाराधारितविकासः, नौवहनं च नौकानिर्माणं च, निर्बाधापूर्तिशृंखलानिर्माणं, समुद्रीकौशलविकासश्च—आश्रयेण अस्य दीर्घकालीनदर्शनेन भारतं जगतः अग्रगण्यसमुद्रीशक्तिषु गणयितुं लक्ष्यं निश्चिनोति।
हिन्दुस्थान समाचार / अंशु गुप्ता