प्रधानमन्त्री नरेन्द्रमोदी जापानदेशस्य नूतनप्रधानमंत्री साने ताकाइची इत्यनया सह संवादं कृतवान्
नवदेहली, 29 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी जापानदेशस्य प्रधानमन्त्री साने ताकाइची इत्यां सह संवादं कृतवन्तः, तस्याः पदग्रहणसन्दर्भे शुभाशंसाः अपि अर्पितवन्तः। अस्मिन् संवादकाले उभौ नेतारौ भारत–जापानयोः विशेषायाः रणनीतिकायाः वैश्विक
प्रधानमन्त्री नरेन्द्रमोदी जापानदेशस्य नूतनप्रधानमंत्री साने ताकाइची इत्यनया सह संवादं कृतवान्


नवदेहली, 29 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी जापानदेशस्य प्रधानमन्त्री साने ताकाइची इत्यां सह संवादं कृतवन्तः, तस्याः पदग्रहणसन्दर्भे शुभाशंसाः अपि अर्पितवन्तः। अस्मिन् संवादकाले उभौ नेतारौ भारत–जापानयोः विशेषायाः रणनीतिकायाः वैश्विकायाः च साझिन्याः अधिकं सुदृढीकरणं विषये चर्चां कृतवन्तौ।

प्रधानमन्त्री मोदी इत्यनेन एक्स् इति सामाजिकमाध्यमे सूचनां प्रकाशितां कृत्वा उक्तं यत् संवादे आर्थिकसुरक्षा, रक्षासहयोगः, प्रतिभाआदानप्रदानं च इत्येतेषु क्षेत्रेषु विशेषं ध्यानं दत्तम्। उभयदेशौ अपि एतस्मिन् विषये समन्वयं कृतवन्तौ यत् भारत–जापानयोः दृढसम्बन्धाः वैश्विकशान्तेः, स्थैर्यस्य, समृद्धेः च कृते अत्यावश्यकाः सन्ति।

उल्लेखनीयं यत् साने ताकाइची इत्येषा २१ अक्टोबर् दिनाङ्के जापानदेशस्य प्रथमास्त्री प्रधानमन्त्रिरूपेण पदं स्वीकृतवती आसीत्।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता