Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 अक्टूबरमासः (हि.स.)।राष्ट्रपतिः द्रौपदी मुर्मुः बुधवासरे राफेल विमानस्य उड्डयनं कृत्वा उक्तवती यत्, “शक्तिशालिनः राफेल विमानस्य मम प्रथम उड्डयनं मम अन्तःकरणे राष्ट्रस्य रक्षा-क्षमतासु नूतनं गौरवभावं जागरयामास।”
राष्ट्रपतिः राफेल-विमानस्य तथा भारतीय-वायुसैनायाः परिचालन-क्षमतानां विषये अपि अवगतां कृतवती।
राष्ट्रपतिः मुर्मु भारतीय-वायुसैनायाः द्वयोः लढाकु-विमयोः उड्डयनं कृतवती प्रथमभारतीय-राष्ट्रपतिः अस्ति। पूर्वं सा २०२३ तमे वर्षे सुखोई–३० एम्.के.आई. विमानं आरोह्य उड्डयनं कृतवती।
भारतीय-सशस्त्रबलानां सर्वोच्च-सेनापतिः राष्ट्रपतिः प्रायः त्रिंशद् मिनिट्-पर्यन्तं विमानं चालयित्वा द्विशतं किलोमीटर-पर्यन्तं दूरीं गता। विमानं सप्तदश-स्क्वाड्रन्-नामधेयस्य कमाण्डिङ्-अफिसर् समूह-कप्तान् अमित् गेहानी नामना चालयितम्। विमानं समुद्रतलात् प्रायः पञ्चदशसहस्र-फीट्-उच्चतायाम् सप्तशत-किलोमीटर-गत्याऽपि उड्डयति स्म।
अनन्तरम् आगन्तुक-पुस्तिकायां राष्ट्रपतिः स्वहस्तेन संक्षिप्तं टिप्पणीं लिखित्वा स्वभावनाः व्यक्तवती यत्“भारतीय-वायुसैनायाः राफेल-विमाने मम प्रथम-उड्डयनार्थं वायुसैनास्थानम् अंबाला आगत्य मम हृदयं परमं प्रीतमभवत्। राफेल-विमाने मम उड्डयनं मम जीवनस्य अविस्मरणीयं अनुभवम्।
एतस्मिन् शक्तिशालिनि राफेल-विमाने प्रथम-उड्डयनेन मम अन्तःकरणे राष्ट्र-रक्षा-क्षमतासु नूतनं गौरवभावं प्रादुरासीत्।
अहं भारतीय-वायुसैनायाः अंबाला-वायुसैनास्थानस्य च समग्र-संवर्गं एतस्य सफल-उड्डयनस्य आयोजनार्थं अभिनन्दामि।”
--------------------------------
हिन्दुस्थान समाचार