बिहार विधानसभानिर्वाचनम् आधृत्य रेलवे सुरक्षा बलस्य विशेषेण अन्वेषणाभियानम्
कटिहारः, 29 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनं २०२५ इत्यस्य प्रसङ्गे, रेलयानरक्षणबलम् (Railway Protection Force) एनएफसीटीओ-पटनायाः संयुक्तदलेन सह, रेलयानानि स्थानकानि च सर्वेषु व्यापकनिरिक्षणनिगराणायाः विशेषः अभियानः प्रवर्त्यते। अस्मिन्
जांच अभियान


कटिहारः, 29 अक्टूबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनं २०२५ इत्यस्य प्रसङ्गे, रेलयानरक्षणबलम् (Railway Protection Force) एनएफसीटीओ-पटनायाः संयुक्तदलेन सह, रेलयानानि स्थानकानि च सर्वेषु व्यापकनिरिक्षणनिगराणायाः विशेषः अभियानः प्रवर्त्यते।

अस्मिन् विशेषे अभियाने आरपीएफ, जीआरपी, स्थानकव्यवस्थापनम्, के–९ डॉग–स्क्वॉड् इत्येताः दलाः कटिहाररेलमण्डले स्थितेषु स्थानकेषु रुक्यमाणानां विविधानां रेलयानानां, फलकानां (प्लेटफॉर्म्), रेलयानपरिसराणां च अन्तरालेषु सन्दिग्धक्रियासु तीक्ष्णदृष्टिं स्थापयन्ति।

निरिक्षणकाले यात्रिणां सामग्र्याः अपि गम्भीरं परीक्षणं कृतम्, यत् मद्य, विस्फोटकवस्तु, वा निषिद्धवस्तूनां सञ्चारः न भवेत् इति सुनिश्चितुं शक्येत।

आरपीएफ–अधिकारिणः उक्तवन्तः यत्, एषा कार्यवाही निर्वाचनस्य प्रसङ्गे रेलयान–सुरक्षायाः व्यवस्थां अधिकं सुदृढां कर्तुं प्रयुज्यते। ते अवदन् — यात्रिणां सुरक्षा परमप्राथम्यं अस्ति, अतः निर्वाचनकाले कापि अनिष्टघटना न घटेत् इति प्रयोजनं कृत्वा एषः निगराणाअभियानः निरन्तरं प्रवर्तिष्यते।

---------------

हिन्दुस्थान समाचार