हेंड्रिक्स-बोशयोः प्रभावेन दक्षिणाफ्रिका प्रथमटी–20 स्पर्धायां पाकिस्तानं 55 अङ्कैः पराजितवान्
रावलपिण्डी, 29 अक्टुबरमासः (हि.स.)। उद्घाटकः रीजा हेंड्रिक्स (60 अङ्कम्, 40 कन्दुकेषु) वेगगोलकक्षेपकश्च कॉर्बिन् बोश (4 विकेट, 14 अङकम्) इत्येतयोः उत्कर्षप्रदर्शनस्य कृते दक्षिणाफ्रिकाया: दलं मङ्गलवासरे रात्रौ प्रथमं टी–20 अन्ताराष्ट्रियस्पर्धां प
शॉट खेलते ओपनर रीजा हेंड्रिक्स


रावलपिण्डी, 29 अक्टुबरमासः (हि.स.)।

उद्घाटकः रीजा हेंड्रिक्स (60 अङ्कम्, 40 कन्दुकेषु) वेगगोलकक्षेपकश्च कॉर्बिन् बोश (4 विकेट, 14 अङकम्) इत्येतयोः उत्कर्षप्रदर्शनस्य कृते दक्षिणाफ्रिकाया: दलं मङ्गलवासरे रात्रौ प्रथमं टी–20 अन्ताराष्ट्रियस्पर्धां पाकिस्तानं प्रति 55 अङ्कैः पराजित्य 3 स्पर्धायाः श्रृंखलासु 1–0 इति अग्रतां प्राप्तवान्।

टॉसं हत्वा प्रथमतया फलनं कर्तुं प्रवृत्ता दक्षिणाफ्रिकाया: दलं 20 ओवरेषु नवविकटेषु 194 अङकं कृतवती। प्रत्युत्तररूपेण पाकिस्तानस्य दलं 139 अङकं कृत्वा सर्वविकटानि त्यक्तवती।

हेंड्रिक्स क्विण्टन् डी कॉक (23 अङ्कम्, 13 कन्दुकेषु) इत्यनेन सह शीघ्रं आरम्भं कृतवान्। ततः प्रथमं स्पर्धां क्रीडन् टोनी डी जॉर्जी 16 कन्दुकेषु 33 अङकम्, सर्वक्रीडकश्च जॉर्ज लिण्डे 22 कन्दुकेषु 36 अङकम् अकुर्वन्। पाकिस्तानस्य पक्षतः मोहम्मद नवाज उत्कृष्टकन्दुक्क्षेपणं कृत्वा 4 ओवरेषु 3 विकटानि गृहित्वा अङकम् अददात्।

लक्ष्यस्य अनुसरणं कुर्वन्तः पाकिस्तानस्य क्रीडकाः मन्दं आरम्भं कृतवन्तः। अग्रपङ्क्त्यां स्थितः क्रीडकः सैम अय्यूब 28 कन्दुकेषु 37 अङकम् अकुर्वन्, परं अन्ये क्रीडकाः लयं न प्राप्नुवन्। कप्तान् बाबर आज़म्, यः गतवर्षस्य दिसम्बरमासात् प्रथमं टी–20 स्पर्धां क्रीडितुम् आगतः, 2 कन्दुकयोः 0 निपातितः — सः बोशस्य कन्दुकं प्रति हेंड्रिक्सेन गृहीतः।

दक्षिणाफ्रिकाया: पक्षतः लिण्डे अपि गोलकक्षेपे योगदानं दत्तवान् — सः 4 ओवरेषु 31 अङकं दत्वा 3 विकटानि प्राप्नोत्।

शृङ्खलायाः द्वितीया स्पर्धा शुक्रवारदिवसे लाहौरनगर्यां भविष्यति, तृतीयः अन्तिमः च प्रतियोगः शनिवासरे तत्रैव आयोज्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani