मुख्यविकासाधिकारिणा विहिते आकस्मिक निरीक्षणे संज्ञातं यत् द्वयोर्विकास भवनयोः विभिन्न विभागानां 51 कर्मचारिणोऽनुपस्थिताः
जौनपुरम् ,28 अक्टूबरमासः (हि.स)।मुख्यविकासाधिकाऱिणा ध्रुवखाडियेन आकस्मिकनिरीक्षणकाले विकासभवने स्थितेषु विविधविभागेषु एकनपञ्चाशत् कर्मचारिणः अनुपस्थिताः प्राप्ताः। अस्याः प्रमादपूर्णायाः वृत्तेः कारणेन सीडीओद्वारा सर्वेषां अनुपस्थितकर्मचारिणां एक
मुख्य विकाश अधिकार ध्रुव खड़िया फोटो


जौनपुरम् ,28 अक्टूबरमासः (हि.स)।मुख्यविकासाधिकाऱिणा ध्रुवखाडियेन आकस्मिकनिरीक्षणकाले विकासभवने स्थितेषु विविधविभागेषु एकनपञ्चाशत् कर्मचारिणः अनुपस्थिताः प्राप्ताः। अस्याः प्रमादपूर्णायाः वृत्तेः कारणेन सीडीओद्वारा सर्वेषां अनुपस्थितकर्मचारिणां एकदिवसीयवेतनं कर्तयितुं आदेशः प्रदत्तः।

मङ्गलवासरे सायं विलम्बेन ध्रुवखाडियेन विकासभवने स्थितानां नानाकार्यालयानाम् औचकं निरीक्षणं कृतम्। निरीक्षणकाले सः उपस्थिति-पञ्जिकां परीक्षितवान्, यस्याम् विविधानां विभागानां एकनपञ्चाशत् कर्मचारिणः अनुपस्थिताः दृश्यन्ते स्म।

निरीक्षणे एतदपि ज्ञातं यत् केचन विभागकर्मचारी एकदिनपूर्वमेव कार्यालयात् अनुपस्थिताः आसन्, तथापि तेषां अनुपस्थितिः उपस्थिति-पञ्जिकायां न लेखिता आसीत्।

सीडीओ ध्रुवखाडियेन एतेषां सर्वेषां एकनपञ्चाशत् अनुपस्थितकर्मचारिणां वेतनकर्टनार्थं कोषागाराधिकाऱिणे निर्देशः प्रदत्तः अस्ति।

हिन्दुस्थान समाचार