Enter your Email Address to subscribe to our newsletters

लखनऊ, 29 अक्टूबरमासः (हि.स.)।
उत्तरप्रदेशस्य योगिसर्वकारेण गन्नकृषकानां कृते महान् निर्णयः। उत्तरप्रदेशराज्ये योगीसर्वकारो ईक्षुकर्षकानां प्रति राहतं दातुं महत्त्वपूर्णं निर्णयं कृतवती। राज्यसर्वर्कारेण ईक्षुमूल्यं प्रति क्विण्टल् त्रिंशद्रूप्यकाणि वर्धितानि इति घोषणां कृतवती। नूतननिर्धारणानुसारम् अगेतीप्रजातिगन्नस्य मूल्यं प्रति क्विण्टल् चतुर्शता रूप्यकाणि, सामान्यप्रजाति-ईक्षोः मूल्यं प्रति क्विण्टल् त्रिशताधिकनवति रूप्यकाणि च निर्धारितानि। एषा घोषणा पेरायीसत्रस्य २०२५–२६ इत्यस्य कृते कृताऽस्ति। एतत् सूचना प्रदेशस्य गन्नमन्त्रिणा लक्ष्मीनारायणचौधरीनाम्ना बुधवासरे लोकभवने आयोजिते प्रेसवार्तालापे प्रदत्ता।
ईक्षुमन्त्रिणा उक्तं यत् अस्य निर्णयस्य फलरूपेण राज्यस्य लक्षगणिताः गन्नकर्षकाः प्रत्यक्षं लाभं प्राप्स्यन्ति। गन्नमूल्यवृद्धेः फलतः कृषकभ्यः लगभग् त्रिसहस्रकोट्यधिकं रूप्यकाणि अतिरिक्तरूपेण प्रदास्यन्ति। तेनोक्तं यत् २०१७ वर्षात् अद्यावधि चत्वारः वारः इक्षोः समर्थनमूल्यं वर्धितम् अस्ति। गताष्टवर्षार्धे कृषकेभ्यः २,९०,२२५ कोटि रूप्यकाणां अभूतपूर्वं भुगतानं कृतम्, यदा तु २००७ तः २०१७ पर्यन्तं केवलं १,४७,३४६ कोटि रूप्यकाणि एव दत्तानि आसन्। एतेन प्रकारेण पूर्वसर्वकाराणां तुलने योगिसर्वकारस्य कालखण्डे १,४२,८७९ कोटि रूप्यकाणि अधिकं इक्षुकृषकेभ्यः दत्तानि इति प्रतिपन्नम्।
एषः सर्वकारनिर्णयः कृषकानां कृते महती रक्षण च सुखवार्ताच इति सर्वत्र मन्यते।
अस्मिन् विषये केन्द्रीयमन्त्री जयन्तचौधरी नामकः अपि गन्नमूल्यवृद्धेः विषये उत्तरप्रदेशमुख्यमन्त्रिणं योग्यादित्यनाथं प्रति कृतज्ञतां प्रकटितवान्। तेन उक्तं — “उत्तरप्रदेशसर्कारया गन्नस्य माधुर्यं च कृषकानां परिश्रमं च सम्यक् आदृतम्।
-----------
हिन्दुस्थान समाचार