उत्तर प्रदेश सर्वकारो ईक्षुकृषकाणां हिते अकरोत् ऐतिहासिक निर्णयम् - केशव प्रसाद मौर्य:
लखनऊ, 29 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः उक्तवान् यत्प्रधानमन्त्रिणः नरेन्द्रमोदिनः कुशलदूरदर्शिनि नेतृत्वे उत्तरप्रदेशस्य द्विचक्रसरकारा गन्नकृषकानां हिताय ऐतिहासिकं निर्णयं स्वीकृतवती अस्ति। अस्मिन् निर्णयेन अगे
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ, 29 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः उक्तवान् यत्प्रधानमन्त्रिणः नरेन्द्रमोदिनः कुशलदूरदर्शिनि नेतृत्वे उत्तरप्रदेशस्य द्विचक्रसरकारा गन्नकृषकानां हिताय ऐतिहासिकं निर्णयं स्वीकृतवती अस्ति। अस्मिन् निर्णयेन अगेतिप्रकारस्य गन्नस्य मूल्यं प्रति क्विण्टल् ४०० रूप्यकाणि, सामान्यप्रकारस्य तु ३९० रूप्यकाणि निश्चितानि। अस्य निर्णयस्य फलरूपेण प्रदेशस्य गन्नकृषकाः लगभग् ३००० कोटिरूप्यकपर्यन्तं अतिरिक्तलाभं प्राप्स्यन्ति।उपमुख्यमन्त्री स्वस्य सामाजिकमाध्यमे ‘एक्स्’ इत्यस्मिन् लेखित्वा अवदत् —“एषः निर्णयः केवलं कृषकाणाम् आयवृद्धिपथं न उद्घाटयति, अपि तु ग्राम्यअर्थव्यवस्थां अपि नूतनगत्या प्रेरयिष्यति। द्विचक्रसरकारायाः एषः प्रयत्नः ‘समृद्धकृषकः–सशक्तउत्तरप्रदेशः’ इति संकल्पस्य साकारार्थं दृढं चरणं भवति।”तत् परम् मौर्यः लिखितवान् —“राजद् च समाजवादीपक्षः च, उभयोः चालः चरित्रं च मुखं च समानमेव। तेजस्वीयादवः वा अखिलेश्यादवः वा, उभयोः राजनितिः भ्रान्त्या, भ्रष्टाचारैः, कुलपरम्परासक्त्या च युक्ता अस्ति। बिहारः उत्तरप्रदेशः च उभौ अपि संकल्पं कृतवन्तौ यत् २०४७ तमे वर्षे एते दलाः शासनस्य समीपमपि न आगमिष्यन्ति, यतः जनता केवलं विकासं सुशासनं च एव इच्छति।”सः अवदत् —“राहुलगान्धी तेजस्वीयादवः च, एकस्य राजनितिः प्रधानमन्त्रिणः नरेन्द्रमोदीविरोधे आधारितः, अपरस्य अस्तित्वं मुख्यमन्त्रिणः नितीशकुमारविरोधे एव सीमितम्। एषा कुलपरम्परायाः राजनितिः, निरर्थकविरोधस्य च दुराग्रहः, नूनं देशस्य बिहारराज्यस्य च जनैः अस्वीक्रियते।”अन्ते मौर्यः उक्तवान् —“बिहारः उत्तरप्रदेशः च पूर्वं अपारसंभावनायाः प्रतीकौ आस्ताम्। किन्तु राजद्-सपा-पक्षयोः राजनितिः तौ अराजकता, भ्रष्टाचारं, वंशवादं च मध्ये बद्धवन्तौ। भाजपा-एनडीए-पक्षौ तु तमसः अस्य कालस्य अन्तं कृत्वा, उभयोः राज्ययोः विकासस्य, सुशासनस्य, विश्वासस्य च मार्गे अग्रे नीतवन्तौ।”

---------------

हिन्दुस्थान समाचार