Enter your Email Address to subscribe to our newsletters
नवदेहली, 3 अक्टूबरमासः (हि.स.)। भारतीयजनतादलने राज्यसभासांसदः आदित्यसाहूः इत्येनं दलस्य झारखण्डक्षेत्रस्य कार्यकारी–अध्यक्षः नियुक्तः ।
दलस्य महासचिवः अरुणसिंहः शुक्रवासरे एकस्मिन् वक्तव्ये एषा सूचना दत्तवान् । तेनोक्तं यत् भाजपादलस्य अध्यक्षः जगतप्रकाशनड्डा इत्यनेन श्रीसाहू इत्येनं झारखण्डप्रदेशभाजपादलस्य कार्यकारी–अध्यक्षः नियुक्तः । तस्य नियुक्तिः श्रीरवीन्द्रकुमाररायस्य स्थाने कृता अपि च एषा नियुक्ति तत्कालप्रभावेण प्रवर्तिता।
---------------
हिन्दुस्थान समाचार