Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 03 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराजर्षिटण्डन-मुक्तविश्वविद्यालये महात्मनः गान्धेः प्रियभजनानाम् आयोजनं कृतम्। अस्मिन् अवसरे कुलपतिः प्राध्यापकः प्रो सत्यकामः गान्धेर्विचारान् जीवनस्य आचाररूपेण आत्मसात्कर्तुं आह्वानं कृतवान्। सः उक्तवान् यत् विश्वविद्यालयस्य अध्यापक-कर्मचारीभिः विश्वविद्यालयस्य विकासे समाजस्य निर्माणे च योगदानं दत्वा राष्ट्रनिर्माणे स्वीयं कर्तव्यं निश्चेतव्यम्।
प्राध्यापकः सत्यकामः अवदत् यत् गान्धीजी स्वजीवनं सत्य-अहिंसयोः सिद्धान्तेन जीवितवान्। तयोः सत्य-अहिंसयोः पाठं भगवद्गीतायाः अवगतवान्। गीता-ग्रन्थे भगवानेव श्रीकृष्णः अर्जुनं प्रति दुष्टानां विनाशाय, सत्यानां प्रतिष्ठाय, धर्मस्य जयाय च उपदेशं दत्तवान्। एतान् विचारान् आत्मसात्कृत्वा गान्धीजी स्वातन्त्र्यभारतनिर्माणे महद् योगदानं दत्तवान्, सर्वं जनमानसं संगृह्य देशं आङ्ग्लदास्यत: विमुक्तवान्।
मुक्तविश्वविद्यालयस्य माध्यम-प्रभारी डॉ॰ प्रभातचन्द्रमिश्रः उक्तवान् यत् कुलपतिः प्राध्यापकः सत्यकामः भूतपूर्वप्रधानमन्त्रिणं लालबहादुरशास्त्रिं अपि नमस्कृतवान्, च संघस्य शततमवर्षपूर्तौ शुभकामनाः दत्तवान्। सः विजयदशम्याः अवसरि विश्वविद्यालयकुटुम्बाय शुभकामनाः अपि प्रदत्तवान्।कार्यक्रमस्य संचालनं कार्यक्रमसचिवः प्राध्यापकः आनन्दानन्दत्रिपाठी कृतवान्, कार्यवाहक-कुलसचिवः समाजविज्ञान-विद्याशाखानिदेशकः च प्राध्यापकः एस कुमारः आभारप्रदर्शनं कृतवान्।
---------------
हिन्दुस्थान समाचार