Enter your Email Address to subscribe to our newsletters
रांची, 3 अक्टूबरमासः (हि.स.)।झारखण्डराज्यस्य धनबाद्-जिलस्य राजदह-प्रदेशे गतचतुर्विंशतिघण्टाभ्यः सर्वाधिकवृष्टिः २०८.४ मिलीमीटर् इति अभिलेखिता। एषा सूचना वातावरणविभागेन शुक्रवासरे दत्ता।
अस्मिन्नेव काले राजधानी-राँची सहिते राज्यस्य विविधानि जिल्लाः महावृष्ट्या प्रभाविताः अभवन्।
यत्र महावृष्टिः अभिलेखिता तेषु स्थानेषु—
नन्दाडीहे १४० मिमी, कर्माटाण्डे १३९ मिमी, सिकटियायां ११३.२ मिमी, गिरिडीहे ११२.६ मिमी, नारायणपुरे १०४ मिमी, चन्दवायां ९०.८ मिमी, लोहरदगायां ८९ मिमी, सिलाइचकायां ८५.५ मिमी, दुम्कायां ८२.३ मिमी, बडकीसुरैयायां ८० मिमी, गोविन्दपुरविभागे ७९.२ मिमी, जामटाडायां ७३.४ मिमी, डुम्रौ ७०.४ मिमी, जामटाडायां ६७.२ मिमी, पालगंजे ६५.५ मिमी, तिलैयाडिविसीस्थले ५८ मिमी, राजधन्वारे ५४.४ मिमी, नावाडीहे ५३ मिमी, सुजनीयां ४७.५ मिमी, हजारीबागे ३१.५ मिमी इति अभिलेखितम्।
वातावरणविभागेन ६ अक्टूबरपर्यन्तं राज्यस्य विविधानि अंशानि महावृष्ट्या प्रभावितानि भविष्यन्ति इति सम्भावना व्यक्ता। एतदर्थं विभागेन येलो अलर्ट इति संचेतना प्रदत्ता।
अस्मिन् काले कतिपयस्थलेषु प्रति घण्टा ३०–४० किलोमीटर्-वेगेन तीव्रा वाताः प्रवहिष्यन्ति, आकाशीयविद्युत्पातश्च सम्भाव्यते।
विभागेन सामान्यजनानां प्रति आह्वानं कृतम्—वृष्टिकाले वृक्षतले न तिष्ठन्तु, विद्युद्खम्भं मा स्पृशन्तु, महावृष्टिकाले बहिः मा निर्गच्छन्तु।
विभागेन चतुर्थ-पञ्चम-ऑक्टोबर-दिनेषु राज्यस्य उत्तरीयं मध्यसमीपं च भागं महावृष्टिसंभावितं इति चेतावनी दत्ता। विभागेन षष्ठ-ऑक्टोबर-दिनेऽपि राज्यस्य कतिपयस्थलेषु महावृष्टिः भविष्यति इति अलर्टः प्रदत्तः।
गतचतुर्विंशतिघण्टाभ्यः राज्ये सर्वाधिकं तापमानं सरायकले ३६.७ डिग्री सेल्सियस् इति, न्यूनतमं तापमानं लातेहारे १८.४ डिग्री सेल्सियस् इति अभिलेखितम्।
अस्मिन् काले राँची-नगरे अधिकतमं तापमानं ३३.६ डिग्री, जमशेदपुरे ३४.२ डिग्री, डाल्टेनगंजे ३३.८ डिग्री, बोकारोे ३५.५ डिग्री, चाइबासायां ३५.८ डिग्री सेल्सियस् इति अभिलेखितम्।
---------------
हिन्दुस्थान समाचार