राष्ट्रपतिः चतुर्णां राष्ट्राणां राजदूतानां परिचयपत्राणि स्वीकृतवती
नवदेहली, 3 अक्टूबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मु महाभागा गतशुक्रवासरे मॉरिटानिया, लक्ज़मबर्ग, कनाडा, स्लोवेनिया एतेषां चतुर्णां राष्ट्राणां राजदूतानां परिचयपत्राणि स्वीकृतवती। राष्ट्रपतिभवने सम्पन्ने विशेषसमारोहे, इस्लामी गणराज्य-मॉ
राष्ट्रपति शुक्रवार को मॉरिटानिया के राजदूत अहमदौ सिदी मोहम्मद से परिचय पत्र प्राप्त करते हुए


नवदेहली, 3 अक्टूबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मु महाभागा गतशुक्रवासरे मॉरिटानिया, लक्ज़मबर्ग, कनाडा, स्लोवेनिया एतेषां चतुर्णां राष्ट्राणां राजदूतानां परिचयपत्राणि स्वीकृतवती।

राष्ट्रपतिभवने सम्पन्ने विशेषसमारोहे, इस्लामी गणराज्य-मॉरिटानियस्य राजदूतः अहम्दौ सिदि मोहम्मदः, लक्ज़मबर्गस्य ग्रैण्ड डची-राज्यस्य राजदूतः क्रिश्चियन बीवरः, कनाडादेशस्य उच्चायुक्तः क्रिस्टोफर कूटरः, स्लोवेनिया-गणराज्यस्य राजदूतः टोमाज़ मेनसिन् इत्येते राजदूताः स्वीयानि परिचयपत्राणि राष्ट्रपतिभ्यः समर्पितवन्तः।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता