Enter your Email Address to subscribe to our newsletters
कोलकाता, 03 अक्टूबरमासः (हि. स.)। कोलकाता-उपनगरीयक्षेत्रे ईडेनमेघबालिकायाम् सम्पन्ना दुर्गापूजा।
कोलकातायाः उपनगरीयप्रदेशे बारूईपुरे अवस्थिते आवासीयपरिसरे ईडेनमेघबालिका इति नामधेये निरन्तरं तृतीयवर्षे दुर्गापूजामहोत्सवः अत्यन्तधूमधामेन सम्पन्नः। पञ्चदिनपर्यन्तं चलितेऽस्मिन् महोत्सवे मेघबालिकानिवासिनः उत्साहेन भगवत्याः दुर्गायाः आराधनायाम् सहभागीभूताः।
यथापूर्वं, अस्मिन् वर्षेऽपि सम्पूर्णविधिविधानपूर्वकं मातृदुर्गायाः पूजनं सम्पन्नम्। प्रतिदिनं सांस्कृतिक-कार्यक्रमाः अपि आयोजिता आसन्, यत्र मेघबालिकावासिनः स्वीयप्रतिभां प्रदर्शय नृत्यगीताभ्यां, नाट्यप्रस्तुतिभिः च श्रोतॄन् आनन्दितवन्तः।
कार्यक्रमेषु एकलनृत्यं, सामूहिक-नृत्यं, गायनं, नाटकमञ्चनं च दृष्ट्वा जनसमुदायः हृष्टः आसीत्। आयोजकाः अभ्यधायन् यत्, अस्मिन् वर्षे परम्परानुसारः पूजा-थीमः एव प्राधान्येन स्वीकृतः। सर्वे निवासिनः अपि एकसूत्रेण सम्बद्धाः इव दृश्यन्ते स्म।
विजयादशम्यां महिलाः सिन्दूर-क्रीडायाम्, धुनुची-नर्तने च पूर्णोत्साहेन भागं गृहीत्वा उत्सवस्य शोभां वर्धितवत्यः। ततः अनन्तरं प्रतिमाविसर्जनेन सह एषः वृहन्महोत्सवः समापनं प्राप्नोत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता