खादी कारीगर महोत्सवे अमित शाहः अवितरत् टूल किट्ससामग्रीम्, कहा- खादीद्वारा आत्मनिर्भरं निर्मास्यते भारतम्
- खादी उत्पादं प्रोत्साहयति हरियाणा सर्वकार : मुख्यमंत्री नायब सिंह सैनी रोहतकम्, 3 अक्टूबरमासः (हि.स.)।केंद्रीयगृहसहकारितामन्त्री अमितशाहः शुक्रवासरे हरियाणाराज्यस्य रोहतकजिलायाः महर्षिदयानन्दविश्वविद्यालये आयोजिते खादीकारीगरमहोत्सवे अवदत् यत् प्
रोहतक के एमडीयू में आयोजित कार्यक्रम के दौरान मंच पर गृह मंत्री अमित शाह व अन्य वरिष्ठ नेतागण।


- खादी उत्पादं प्रोत्साहयति हरियाणा सर्वकार : मुख्यमंत्री नायब सिंह सैनी

रोहतकम्, 3 अक्टूबरमासः (हि.स.)।केंद्रीयगृहसहकारितामन्त्री अमितशाहः शुक्रवासरे हरियाणाराज्यस्य रोहतकजिलायाः महर्षिदयानन्दविश्वविद्यालये आयोजिते खादीकारीगरमहोत्सवे अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे खादीग्रामोद्योगः आत्मनिर्भरभारतात् सशक्तं साधनं जातः। ते उक्तवन्तः—यदा स्वतंत्रतायाः शताब्दीउत्सवः भविष्यति, तदा तस्मिन् खादेः महत्त्वपूर्णं योगदानं भविष्यति। लाखानां तन्तुवायिनां कृते खादीग्रामोद्योगः दृढं मंचं जातः।

गृहमन्त्री अमितशाहः मुख्यमन्त्री नायबसिंहसैनी सह तत्र उपस्थितकलाकारेभ्यः आधुनिकयन्त्रैः, उपकरणकिट्स्भिः, पीएमईजीपी-नामकयोजनायाः अन्तर्गते 301 कोटिरूप्यकाणां मार्जिनधनवितरणेन च स्वदेशिनः प्रति स्वावलम्बनदिशायां पदं स्थापयितुं प्रोत्साहितवन्तः। तेन सह केंद्रीयमन्त्री पी.एम.ई.जी.पी. इकाइः, केन्द्रीयपूनिसंयन्त्रं, खादीग्रामोद्योगभवनानि च आभासीयरूपेण उद्घाटितवान्। एषु मध्ये हरियाणायाः पंचकुलायां नूतननिर्मितं खादीग्रामोद्योगआयोगकार्यालयं गोदामं च अपि उद्घाटितम्।

केंद्रीयमन्त्री अमितशाहः अवदत्—स्वतंत्रतायाः अनन्तरं पूर्वसत्ता-सरकारैः खादेः विषये किमपि ध्यानं न दत्तं, खादीग्रामोद्योगः पूर्णतया उपेक्षितः च। ते अवदन्—यदा नरेन्द्रमोदी गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदा एव तेन खादीं विकसितुं संकल्पः कृतः, खादीग्रामोद्योगं पुनर्जीवितुं च कार्यं कृतम्। ते उक्तवन्तः—प्रधानमन्त्रिणा नरेन्द्रमोदीना देशस्य 140 कोटिजनानां प्रति स्वदेशीवस्तूनां ग्रहणं प्रति सन्देशः दत्तः। आत्मनिर्भरभारतस्य कल्पना, स्वदेशीघोषणा च सर्वेषां भारतवासिनां कृते हितकरी भविष्यति। प्रधानमन्त्रिणा हालसमये 395 वस्तुषु जीएसटी-करः न्यूनः कृतः, यः दीपावलिनः उपहाररूपेण दत्तः।

मुख्यमन्त्री नायबसिंहसैनी अवदत्—खादी अस्माकं विरासत् अस्ति, खादीजन्यउत्पादाः लोकल् टु ग्लोबल् इति दिशायां शीघ्रतया अग्रे गच्छन्ति। ते उक्तवन्तः—आत्मनिर्भरभारतात् सशक्तं साधनं खादीग्रामोद्योगः जातः। प्रधानमन्त्रिणः नरेन्द्रमोदी नेतृत्वे खादी अभूतपूर्वं वृद्धिं प्राप्तवती, अधुना च अन्तर्राष्ट्रीयस्तरे अपि तस्य विशेषा पहचानः जाता। एषः कार्यक्रमः आत्मनिर्भरभारतस्य उत्सवः, यस्य दर्शनं प्रधानमन्त्रिणा प्रदत्तम्। एतेषु आयोजनप्रकारेषु, केन्द्रसत्तासहयोगेन च हरियाणायां खादीसंबद्धाः क्रियाः वर्धिष्यन्ते।

मुख्यमन्त्री अवदत्—केंद्रीयसत्तया सहकारेण समृद्धिः इति मन्त्रं प्रवर्त्य राष्ट्रियसहकारितानीतिः 2025 नामकः प्रावर्तितः। अस्यां नीतौ ग्रामः, कृषि, ग्रामीणनार्यः, दलिता: आदिवासिनः च केन्द्रे स्थापिता:। सा नीति: पारदर्शिता, तकनीकी, सदस्यहितानि च प्राथमिकतायाम् स्थापयति। अतः सहकारीसंस्थाः अद्य कॉरपोरेट्-क्षेत्रेण तुल्यस्थाने स्थिताः। प्रधानमन्त्रिणा नरेन्द्रमोदीना स्वदेशी, वोकल् फॉर लोकल्, मेक इन इंडिया इत्यादि आह्वानानि कृता:। एतेषां कृते सर्वेषां गृहाणां स्वदेशीभावना, गृहगृहे स्वदेशीभावना च सुदृढा जाता।

खादीकारीगरमहोत्सवे खादीग्रामोद्योगआयोगस्य अध्यक्षः मनोजकुमारः अवदत्—खादी अद्य केवलं परम्परा, स्वदेशीचेति प्रतीकम् एव न, अपि तु युवानां कृते फेशन-रूपेण आत्मनिर्भरतेः साधनं अपि जाता। ते अवदन्—खादेः कारणेन न केवलं ग्रामीणप्रदेशेषु रोजगारसृजनं जातम्, अपि तु नारीणां आत्मनिर्भरता-वृद्धौ अपि तस्याः महत्त्वपूर्णं योगदानं वर्तते।

-----------

हिन्दुस्थान समाचार