Enter your Email Address to subscribe to our newsletters
वाराणसी, ०३ अक्टूबरमासः (हि.स.) । भारतीयशास्त्रीयसंगीतस्य महान् पुरोधाः पद्मविभूषणपण्डितः छन्नूलालमिश्रः गुरुवासरे सायं मोक्षनगरीकाश्यां मणिकर्णिकाघाटे पंचतत्वे विलीनः। तस्य पौत्रः राहुलमिश्रः मुखाग्निं दत्तवान्। अन्त्यसंस्कारः राजकीयसम्मानपूर्वकं सम्पन्नः। अस्मिन्नेव काले अनेके सङ्गीतप्रेमिणः, शिष्याः, विशिष्टजनाश्च सन्निहिताः सन्तः श्रद्धाञ्जलिं दत्तवन्तः।
प्रातः चतुर्धनर्धसमीपे मीरजापुरे स्वपुत्र्याः प्रोफेसर-नम्रतामिश्रायाः गृहे पण्डितस्य निधनं जातम्, यत्र सः गतत्रिवर्षात् निवसन् आसीत्। ततः अपराह्णे तस्य पार्थिवशरीरं वाराणस्यां बड़िगैबीस्थितं निवासं नीतम्, यत्र जनसामान्यैः सह अनेकैः विशिष्टजनैः अपि अन्तिमदर्शनं कृतम्।
श्रद्धाञ्जलिदानकर्तृषु वाराणस्याः महापौरः अशोकतिवारी, पूर्वमहापौरः रामगोपालमोहेले, दक्षिणीविधानसभासदः डॉ. नीलकण्ठतिवारी, पिण्ड्राविधानसभासदः अवधेशसिंहः, भारतीयजनतापक्षस्य महानगराध्यक्षः प्रदीपाग्रहरिः, पूर्वविधानपरिषद्सदस्यः बृजेशसिंहः, कांग्रेसपक्षस्य प्रदेशाध्यक्षः अजयः रायः, आरक्षक-आयुक्तः मोहित-अग्रवालः इत्यादयः सन्निहिताः आसन्।
बनारस-किराणगृहस्य संगमः पण्डितः मिश्रः।
आजमगढे जातः पण्डितः छन्नूलालमिश्रः बनारसगृहस्य किराणगृहस्य च अद्वितीयप्रतिनिधिः अभवत्। ठुमरी, दादरा, चैती, कजरी, भजनगायनं च तस्य विशेषपरिचयं दत्तवान्। तस्य विशिष्टगायनशैलीनिमित्तं वर्षे २००० तस्मै सङ्गीत-नाटक-अकादमीपुरस्कारः, २०१० तमे वर्षे पद्मभूषणं, २०२० तमे वर्षे पद्मविभूषणं च प्रदानम्।
वर्षे २०१४ लोकसभानिर्वाचने सः वाराणसीसंसदीयक्षेत्रे भारतीयजनतापक्षस्य प्रत्याशी नरेन्द्रमोदिनः प्रस्तावकः अपि अभवत्।
तस्य परिवारः – एकः पुत्रः रामकुमारमिश्रः (प्रख्यातः तबलावादकः), तिस्रः च पुत्र्यः।
---
हिन्दुस्थान समाचार / अंशु गुप्ता