Enter your Email Address to subscribe to our newsletters
नवदेहली, 3 अक्टूबरमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखा गुप्ता द्वारा सुदेवा फुटबॉल क्लब-प्रांगणे नूतनक्रीडाङ्गणस्य उद्घाटनम् कृतम्।
दिल्लीराज्यस्य मुख्यमन्त्रिणी रेखा गुप्ता शुक्रवारे सिविल लाइन्स् प्रदेशस्थिते सुदेवा फुटबॉल क्लब-नाम्ने क्रीडाङ्गणे नूतनभूमेः उद्घाटनं कृतवती। अस्मिन् अवसरि विधायकः सूर्यप्रकाश खत्री, क्लबस्य पदाधिकाऱिणः च उपस्थिताः आसन्।
मुख्यमन्त्रिणी स्वस्य एक्स-सन्देशे अवदत् — “दिल्लीप्रदेशे क्रीडासंस्कृतिं प्रोत्साहयितुं अस्माकं सरकारः निरन्तरं कार्यं करोति। अस्माकं संकल्पः अस्ति यत् प्रत्येकः क्रीडकः अवसरं लभेत, स्वप्रतिभां प्रकटयितुं समर्थः स्यात्, च दिल्लीप्रदेशस्य नाम राष्ट्रीय-अन्तर्राष्ट्रीयस्तरे उन्नतं भवेत्।”
सा अवदत् यत्, देहलीसर्वकारेण सर्वाधिकया इनामीराश्या सहितः नूतनः क्रीडानीतिः प्रवर्तिता अस्ति। अस्याः नीत्याः अन्तर्गते दिल्लीप्रदेशे ओलंपिकस्वर्णपदकविजेतारः सप्तकोटिरूप्यकाणि, रजतपदकविजेतारः पञ्चकोटिरूप्यकाणि, कांस्यपदकविजेतारः त्रीणि कोटिरूप्यकाणि च लप्स्यन्ते। एषा इनामीराशिः अन्येषां सर्वेषां राज्येषु दत्तात् सर्वाधिकाः अस्ति।
तस्मिन् सह, क्रीडकानां ग्रेड् ए, बी, सी इत्यादिषु शासकीयसेवास्थानेषु नियोजनस्य अवसरः अपि भविष्यति। सम्पूर्णनगरं प्रति क्रीडाप्रशिक्षणकेंद्राणि अपि संस्थाप्यन्ते, यथा कोऽपि क्रीडकः संसाधनाभावे कारणात् पृष्ठभागे न स्थाप्येत।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता