Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 30 अक्टूबरमासः (हि.स.)।मुख्यमंत्री डॉ. हिमन्त बिस्व सरमा महोदयेन मिसिंगभाषादिवसस्य अवसरं प्रति मिसिंगसमुदायस्य सर्वेभ्यः भ्रातृभ्यः भगिनीभ्यश्च हार्दिकाः शुभाशंसाः प्रदत्ताः। मुख्यमंत्री आह— मिसिंगसमुदायः असमराज्यस्य समृद्धविविधसांस्कृतिकविरासतस्य अभिन्नः अंशः अस्ति। सः राज्यसरकारस्य पक्षतः अस्य समुदायस्य समृद्धभाषाया:, परम्परायाः, संस्कृतेश्च संरक्षणसंवर्धनयोः प्रति प्रतिबद्धतां पुनः अभ्यदीद्यात्।
हिन्दुस्थान समाचार