मुख्यमन्त्री डॉ. मोहनयादवः अद्य द्विपञ्चाशत् लक्षात् अधिकानां विद्यार्थिनां कोशेषु त्रिशतकोट्यधिकं छात्रवृत्तिधनं एकेनैव सङ्केताङ्गुलिस्पर्शेन स्थापयिष्यति
भोपालनगरम्, ३० अक्तुबरमास: (हि. स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः अद्य गुरुवासरे समेकितछात्रवृत्तियोजनायाः अन्तर्गतं त्रिशतकोट्यधिकं धनराशिं द्विपञ्चाशत् लक्षात् अधिकानां विद्यार्थिनां वित्तकोशेषु एकेनैव सङ्केताङ्गुलिस्पर्शेन (सिंगलक्लि
मुख्‍यमंत्री डॉ. यादव


भोपालनगरम्, ३० अक्तुबरमास: (हि. स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवः अद्य गुरुवासरे समेकितछात्रवृत्तियोजनायाः अन्तर्गतं त्रिशतकोट्यधिकं धनराशिं द्विपञ्चाशत् लक्षात् अधिकानां विद्यार्थिनां वित्तकोशेषु एकेनैव सङ्केताङ्गुलिस्पर्शेन (सिंगलक्लिक्) समवेश्यन्ति।

एषः कार्यक्रमः मध्याह्ने द्वादशवादने मुख्यमन्त्रिनिवासस्थिते समत्वभवने आयोजितः भविष्यति।

अस्मिन् अवसरे विद्यालयशिक्षामन्त्री उदयप्रतापसिंहः जनजातिकल्याणमन्त्री च कुँवरविजयशाहः अपि उपस्थितौ भविष्यतः।

एतस्मिन्नवसरे मुख्यमन्त्री डॉ० यादवः विद्यार्थिनः जनसमुदायं च जालसंप्रेषणमार्गेण (वर्चुअली) सम्बोधयिष्यति।

अस्य कार्यक्रमस्य सजीवप्रसारणं सर्वेषां जनपदेषु सर्वेषु विद्यालयेषु अपि भविष्यति।

समेकितछात्रवृत्तियोजनायाः पात्रविद्यार्थिनः जनपदविकासखण्डस्थेषु विद्यालयेषु आयोज्यमानेषु कार्यक्रमेषु सहभागिनः भविष्यन्ति।

जनपदविकासखण्डस्तरेषु कार्यक्रमेषु विधायकाः जनप्रतिनिधयः च आमन्त्रिताः सन्ति।

उल्लेखनीयं यत् — समग्रसामाजिकसुरक्षा- उद्देश्य -नाम्नि अन्तर्गतं समेकितछात्रवृत्तियोजनायाः कार्यान्वयनस्य उत्तरदायित्वं विद्यालयशिक्षाविभागाय प्रदत्तम् अस्ति।

अस्यां योजनायां षट्सु विभागेषु — विद्यालयशिक्षा, अनुसूचितजातिकल्याणम्, जनजातिकल्याणम्, विमुक्त- पर्यटक-अर्धपर्यटककल्याणम्, अनुसूचितवर्ग:, सामाजिकन्यायविभागे इत्येषु — विंशतिविधाः छात्रवृत्तयः एकत्रीकृत्य प्रदीयन्ते।

समेकितछात्रवृत्तियोजनायां प्रदेशस्य शासकीय-अशासकीयविद्यालयेषु पठमानाः कक्षा-एकादशद्वादशान्ताः पात्रविद्यार्थिनः शैक्षणिकद्वारम् ३.० (एजुकेशन पोर्टल्) इत्यस्य माध्यमेन छात्रवृत्तिधनराशिं प्राप्नुवन्ति।

मुख्यमन्त्रिणा समवेश्यमानायां धनराशौ विद्यालयशिक्षाविभागस्य सप्तविधानाः छात्रवृत्तयः —

सामान्यनिर्धनवर्गछात्रवृत्ति:, सुदामापूर्वमाध्यमिकछात्रवृत्ति:, स्वामीविवेकानन्दोत्तरमाध्यमिकछात्र-वृत्ति:, सेवामुक्तशासकीयकर्मचारिणां पुत्रछात्रवृत्ति:, पितृहीनकन्याछात्रवृत्ति:, एकपुत्रीकन्याशिक्षाविकासछात्रवृत्ति: इत्यादयः अपि अन्तर्भवन्ति।

लोकशिक्षणसंचालनालयेन अपि समेकितछात्रवृत्ति–२०२५ इत्यस्य सम्बन्धे समस्तजनपदशिक्षाधिकारीभ्यः जनजातिकर्मविभागस्य सहायकायुक्तेभ्यश्च निर्देशाः प्रदत्ताः।

निर्देशेषु उक्तं यत् — जनपदस्तरे आयोज्यमानेषु कार्यक्रमेषु विद्यार्थिनां स्थानीयजनप्रतिनिधीनां च सहभागः कर्तव्यः इति।

---

हिन्दुस्थान समाचार / Dheeraj Maithani