छिन्दवाडायाम् - युवासंगमकार्यक्रमस्य अन्तर्गतम् अद्य जिलास्तरीयरोजगारमेलनस्य आयोजनम्
छिन्दवाडा, 30 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे छिन्दवाडा–जनपदे रोजगारकार्यालयेन तथा शासकीय–औद्योगिक–प्रशिक्षणसंस्थया संयुक्तरूपेण “युवा–संगमकार्यक्रमस्य” अन्तर्गतं जिलास्तरीयरोजगार–स्वरोजगार–अप्रेन्टिसशिप–मेलनम् अद्य गुरुवासरे प्रातः एकादशवादनात् स
इंदौरः रोजगार मेले में 162 युवाओं को प्रतिष्ठित कंपनियों में मिला रोजगार


छिन्दवाडा, 30 अक्टूबरमासः (हि.स.)। मध्यप्रदेशे छिन्दवाडा–जनपदे रोजगारकार्यालयेन तथा शासकीय–औद्योगिक–प्रशिक्षणसंस्थया संयुक्तरूपेण “युवा–संगमकार्यक्रमस्य” अन्तर्गतं जिलास्तरीयरोजगार–स्वरोजगार–अप्रेन्टिसशिप–मेलनम् अद्य गुरुवासरे प्रातः एकादशवादनात् सायं चतुर्वादनपर्यन्तं शासकीय–औद्योगिकप्रशिक्षणसंस्थायां आयोज्यते। रोजगार–मेलनमध्ये चत्वारः कम्पन्यः उपस्थिताः भविष्यन्ति। इच्छुकाः अभ्यर्थिनः स्वरोजगारकार्यालयस्य जीवितपञ्जीकरणम्, समग्र–अभिज्ञानसंख्या (अनिवार्यतया) सहितं समग्राणि दस्तावेजानि/रिज्यूम च गृहीत्वा निर्दिष्ट–समये संस्थायाम् उपस्थिताः सन्तः रोजगार–मेलनस्य लाभं प्राप्नुयुः।

जिलारोजगार–अधिकारी माधुरीभलावी इत्यनेन उक्तम् यत्—अक्षितहोण्डाप्राइवेट–लिमिटेड–छिन्दवाडा–संस्थायां सेल्स–सर्विसपदस्य कृते योग्यता स्नातकस्तरः, अभ्यर्थ्याः आयुः त्रिंशद् वर्षपर्यन्ता, मासिकवेतनं दशसहस्रं रूप्यकाणि भविष्यन्ति।कामठी–मोटर्स–प्राइवेट–लिमिटेड–छिन्दवाडा–संस्थायां मेकैनिकपदस्य कृते योग्यता स्नातक/आई.टी.आई. स्तरः, अभ्यर्थ्याः आयुः त्रिंशद् वर्षपर्यन्ता, मासिक–वेतनं नवसहस्र–पञ्चशतानि रूप्यकाणि च निर्दिष्टानि।एल्.पी.–डील्–प्राइवेट–लिमिटेड–छिन्दवाडा–संस्थायां विक्रेता कर्मचारी पदस्य कृते योग्यता दशमी/द्वादशी–स्तरः, अभ्यर्थ्याः आयुः त्रिंशद् वर्षपर्यन्ता, मासिकवेतनं सप्तसहस्रदशसहस्ररूप्यकपर्यन्तं भविष्यति।शॉपिंगजोनप्राइवेट–लिमिटेडछिन्दवाडासंस्थायां वितरकपदस्य कृते अपि योग्यता दशमी/द्वादशी–स्तरः, आयुः त्रिंशद् वर्षपर्यन्तम्, मासिक–वेतनं सप्तसहस्र–दशसहस्ररूप्यकपर्यन्तं भविष्यति इति।

हिन्दुस्थान समाचार / Dheeraj Maithani