रायगढ़े अद्य बहुषु क्षेत्रेषु पिधास्यते विद्युत् , प्रातः 10 तः मध्याह्नोत्तरं2 वादनं यावद्वर्तिष्यते प्रभावः
रायगढ़म् 30 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा प्रवर्तितायाः “नगरीय विद्युतीकरण योजना” अन्तर्गतं नगरे ११ के॰वी॰ परिमित्या: मुक्तताराणां स्थाने आवृतताराणि स्थाप्यन्ते इति कार्यं प्रवर्तते। अतः अद्य गुरुवासरे, ३० अक्टोबर् इति दिने, रायगढनगरस्य अनेकेष
बिजली बंद सांकेतिक फाेटाे


रायगढ़म् 30 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा प्रवर्तितायाः “नगरीय विद्युतीकरण योजना” अन्तर्गतं नगरे ११ के॰वी॰ परिमित्या: मुक्तताराणां स्थाने आवृतताराणि स्थाप्यन्ते इति कार्यं प्रवर्तते। अतः अद्य गुरुवासरे, ३० अक्टोबर् इति दिने, रायगढनगरस्य अनेकेषु प्रमुखप्रदेशेषु विद्युत्सेवा स्थगिता भविष्यति।

विद्युत् विभागेन निवेदितं यत् — आवश्यकतां तांत्रिककार्यनिमित्तं अद्य प्रातः १०.०० वादनात् मध्याह्न २.०० वादनं यावत् ११ के॰वी॰ “स्टेडियम् फीडर” नामकस्य आपूर्तिः निलंबिता भविष्यति। एतत् कार्यं उपभोक्तॄणां सुरक्षायै, च निरविच्छिन्नविद्युत्सेवानिश्चयाय च क्रियते।

विभागः अवदत् यत् कार्यस्य स्वरूपानुसारं विद्युत्-निरोधकालस्य ह्रासः वा वृद्धिः वा सम्भाव्यते। विद्युत्सेवायां निलम्बितायां चक्रधरनगरस्टेडियम्, सेठीनगरं, हाउजिंग्बोर्ड् कॉलोनी, दुर्गाचौकं, बङ्गलापारः, क्षेत्रपारः, PHE कार्यालयः, सरलाविला, रुपसीगार्मेण्ट्स् इत्येते प्रदेशा प्रभाविताः भविष्यन्ति।

विभागेन नागरिकेभ्यः सहयोगाय आह्वानं कृतं यत् — ते प्रातः १० वादनात् पूर्वं स्वस्यान्यावश्यकविद्युत्कारणि सम्पन्नानि कुर्वन्तु, विद्युत्प्रेरितोपकरणानि च सावधानतया उपयोगयन्तु। अपि च सम्भाव्यमानानां असुविधानां निवारणाय पूर्वमेव आवश्यकाः सज्जाःकरणीयाः इति।

---------------

हिन्दुस्थान समाचार