Enter your Email Address to subscribe to our newsletters

धनबादम्, 30 अक्टुबरमासः (हि.स.)। कार्तिकमासस्य शुक्लपक्षनवमीतिथौ आचर्यमाणायां आंवलानवम्यां अथवा अक्षयनवम्यां पवित्रे अवसरे नगरे धार्मिकोल्लासस्य भक्तेः च अद्भुतः संगमः दृष्टः। प्रभाते एव बैङ्कमोढस्थे रामकृष्णमन्दिरे भक्तानां अद्भुतः संङ्गमः दृष्टः। स्त्रियः पुरुषाश्च पारम्परिकवस्त्रैः अलङ्कृताः आमलकवृक्षस्य पूजां कर्तुं आगतवन्तः।
पूजायां सहभागिनी भक्ता समंती शर्मा नामिका उक्तवती— “सनातनपरम्परायां आंवलानवम्याः विशेषं धार्मिकं महत्वं विद्यते। विश्वासः अस्ति यत् अस्मिन् दिवसे आमलवृक्षस्य अधः भगवान् विष्णुः माता लक्ष्मी च निवसतः। ये भक्ताः श्रद्धाभक्तिपूर्वकम् आमलवृक्षस्य पूजां कुर्वन्ति, ते प्रत्यक्षं भगवतः विष्णोः शरणं यान्ति, तैः च अक्षयपुण्यं प्राप्यते।” सा उक्तवती— “अस्मिन् दिवसे पूजाकरणेन पापक्षयः भवति, चिरायुः सुखसमृद्धिः शान्तिश्च आशीर्वादरूपेण लभ्यते।”
पूजानन्तरं मन्दिरे भगवतः विष्णोः कथा श्रविता अभवत्। तत्र पौराणिकप्रसङ्गैः सह आंवलानवम्याः धार्मिकमहत्त्वं विवृतं कृतम्। भक्ताः आमलवृक्षस्य सप्तवारं परिक्रमां कृत्वा दीपान् प्रज्वाल्य स्वपरिवारस्य कल्याणाय प्रार्थनाम् अकुर्वन्।
अस्मिन्नवसरे भक्तैः आचार्येभ्यः ओदनदक्षिणावस्त्रादिवस्तूनि गुप्तरूपेण दत्तानि। आस्तिक्यम् अस्ति यत् अस्मिन्नेव दिवसे कृतं दानं अक्षयफलदं भवति, यत् च आगामिजीवने सौभाग्यसमृद्ध्योः द्वारं उद्घाटयति।
हिन्दुस्थान समाचार / अंशु गुप्ता