प्रधानमन्त्री नरेंद्र मोदी अद्य श्वश्च गुजरातराज्ये भविष्यति, प्रथमं सः केवडिया–प्रदेशं प्राप्स्यति।
नवदेहली, 30 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य च श्वश्च (३० तथा ३१ अक्तोबर् मासस्य) गुजरातप्रदेशस्य दौरे भविष्यति। अस्मिन् अवसरे सः राष्ट्रीयैक्यदिवसस्य समारोहम् अवतार्य सरदारवल्लभभाईपटेलस्य १५०तमजयंतीसम्बन्धे तस्मै श्रद्धासुमना
प्रधानमंत्री नरेन्द्र मोदी के आज के कार्यक्रम को भाजपा ने अपने एक्स हैंडल पर साझा किया है।


नवदेहली, 30 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य च श्वश्च (३० तथा ३१ अक्तोबर् मासस्य) गुजरातप्रदेशस्य दौरे भविष्यति। अस्मिन् अवसरे सः राष्ट्रीयैक्यदिवसस्य समारोहम् अवतार्य सरदारवल्लभभाईपटेलस्य १५०तमजयंतीसम्बन्धे तस्मै श्रद्धासुमनानि अर्पयिष्यति।

प्रधानमन्त्रीकार्यालयस्य (PMO) अनुसारं यात्रायाः प्रथमे चरणे अद्य सः केवडिया–प्रदेशं गमिष्यति।

PMO–अनुसारं प्रधानमन्त्री केवडिया–स्थिते एकतानगरे ई–बसयानानि हरीध्वजेन प्रेषयिष्यति च, तथा प्रायः ११४० कोटि रूप्यकाणां मूल्ययुक्तानि विविधानि विकास–पूर्वाधार–परियोजनाः उद्घाटयिष्यति च शिलान्यासं च करिष्यन्ति। सायंकाले सः बिर्सामुण्डा जनजातीय–विश्वविद्यालयस्य (राजपीपला), हॉस्पिटैलिटी–डिस्ट्रिक्ट (प्रथम–चरण), वामनवृक्ष–वाटिका, सप्तपुड़ासंरक्षणभित्ति, ई–बस–चार्जिंग–डिपो तथा २५ विद्युत्–बसयानानि, नर्मदा–घाट–विस्तारणम् च स्मार्ट–बस–स्थलानि (द्वितीय–चरण) इत्येतासु परियोजनासु उद्घाटनं करिष्यति।

एतेन सह सः भारतस्य राजकीय–राज्य–संग्रहालयस्य वीरबालक–उद्यानस्य, क्रीडानिकेतनस्य वृष्टिवन–परियोजनायाः , तथा Travelator इत्यस्य परियोजनायाः च शिलान्यासं करिष्यति। अस्मिन् अवसरि प्रधानमन्त्रिणा सरदारवल्लभभाईपटेलस्य १५०तम–जयंती–उपलक्ष्ये विशेषं १५० रूप्यकाणां स्मारक–नाणकं च डाक–टिकटं च विमोच्यते।

प्रधानमन्त्री श्वः (३१ अक्तोबर्) स्टैच्यू ऑफ यूनिटी इत्यस्य समीपे सरदारपटेलस्य प्रतिमायां पुष्पाञ्जलिं अर्पयिष्यति च राष्ट्रीयैक्यदिवस–समारोहम् अवतार्य एकताशपथं दास्यति च पदसञ्चलनं निरीक्षिष्यति। अस्मिन् वर्षे एकतादिवसस्य परेड्–आयोजने एकतायाम् विविधता इत्यस्मिन् विषयं आधृताः दश प्रदर्श्न्यः प्रदर्श्यन्ते।

तदनन्तरं सः आरंभ ७.० कार्यक्रमस्य समापनावसरे शततमसंस्थापन–पाठ्यक्रमस्य अधिकारी–प्रशिक्षुकैः सह संवादं करिष्यति। अस्य वर्षस्य आरंभ–विषयः अस्ति — ” (शासनस्य नव–कल्पना)। अस्मिन् पाठ्यक्रमे भारतस्य षोडश सिविल–सेवाः तथा भूटानस्य त्रयः सिविल–सेवाः—एवम् आहत्य ६६० प्रशिक्षुकाः सम्मिलिताः सन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता