सरदारवल्लभभाईपटेलस्य जयन्त्याः पूर्वसन्ध्यायां सूत्रपुत्तलीनाट्यस्य ‘हिन्दकेसरदार’ इत्यस्य प्रदर्शनम्
— 54 निवेशपरिमिते सूत्रपुत्तलीनाट्ये 78 सूत्रपुत्तल्यः लौहपुरुषस्य जीवनवृत्तं व्यजानीषुः। वाराणसी,30 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य वाराणस्यां भारतस्य प्रथमगृहमन्त्री लौहपुरुषः सरदारवल्लभभाईपटेलस्य 150 तम् जयन्त्याः पूर्वसन्ध्यायां गुरुव
सरदार पटेल की जयंती की पूर्व संध्या पर कठपुतली नाटक


सरदार पटेल की जयंती की पूर्व संध्या पर कठपुतली नाटक


— 54 निवेशपरिमिते सूत्रपुत्तलीनाट्ये 78 सूत्रपुत्तल्यः लौहपुरुषस्य जीवनवृत्तं व्यजानीषुः।

वाराणसी,30 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य वाराणस्यां भारतस्य प्रथमगृहमन्त्री लौहपुरुषः सरदारवल्लभभाईपटेलस्य 150 तम् जयन्त्याः पूर्वसन्ध्यायां गुरुवासरे सूत्रपुत्तलीनाट्यं ‘हिन्दकेसरदार’ इति नामधेयं प्रदर्शितम्। सामाजिकसंस्था ‘आशाट्रस्ट्’ इत्यस्य तत्वावधानात् ‘क्रिएटिव्पपेटार्ट्स्ग्रूप्’ इत्यनेन पटेलमहाभागस्य जीवनवृत्ताधारितं सूत्रपुत्तलीनाट्यं भन्दहाकला कैथीप्रदेशस्थायाम् ‘आशालयब्रेरी’ इत्यस्मिन् प्रदर्शितम्। अस्मिन् प्रदर्शनै 78 सूत्रपुत्तल्यः उपयोजिताः। प्रायः 54 निवेशपरिमितायां प्रस्तुतौ षट् सूत्रपुत्तलीकलाकाराः सहभागी अभवन्।

कार्यक्रमसंयोजकः कठपुतलीकलाकारश्च मिथिलेशदुबे उक्तवान् यत्— सरदारपटेलमहाभागस्य जीवनाधारितस्य अस्य सूत्रपुत्तलीनाट्यस्य कथानकं राजसमन्दराजस्थानप्रदेशीयः सुप्रसिद्धः साहित्यकारः डॉ॰ नरेन्द्रनिर्मलेन रचितम्। अस्मिन्नाटके उपयोजितानां सूत्रपुत्तलीनां निर्माणे नाट्यरूपदाने च एकवर्षकालः व्यतीतः। सः अपि उक्तवान् यत् पटेलमहाभागस्य 150 तम् जयन्त्यां वर्षे सर्वदेशे अस्य नाट्यस्य 150 प्रदर्शनानि कर्तुं लक्ष्यं निश्चितम्।

कार्यक्रमे संस्थानस्य संयोजकः वल्लभाचार्यपाण्डेयः अतिथीनां स्वागतं चकार। तेन उक्तं यत् लौहपुरुषनामधेयेन प्रसिद्धः सरदारवल्लभभाईपटेलः भारतीयराजनीतौ महानुभावः देशस्य च प्रथमः उपप्रधानमन्त्री आसीत्। सः सत्यदेशभक्तः आसीत्, यः महात्मागान्धिनः अहिंसासिद्धान्तैः प्रभावितः सन् ब्रिटिशशासनविरुद्धे तेषाम् उपदेशान् प्रयोक्तुं प्रयत्नशीलः आसीत्। सः स्वजीवने देशस्य स्वातन्त्र्यस्य विकासस्य च कृते एकताया अखण्डतायाश्च महत्त्वं निरन्तरं प्रकाशयामास। भारतस्य राजनैतिकैक्यकरणे अपि सः अत्यन्तं महत्वपूर्णं योगदानं दत्तवान्। सः ५६२ राज्याः भारतीयसंघे सम्मिलितुं प्रेरितवान्।

नाट्यप्रस्तुतिः सूत्रपुत्तलीकलाकारैः मिथिलेशदुबेनेतृत्वे अनिलकुमार-विशालसिंह-सुजीतकुमार-पंकजकुमार-विशालकुमार-नामभिः सह कृतम्।

हिन्दुस्थान समाचार / अंशु गुप्ता