केंद्रीय मंत्री बघेलः चलिष्यति स्वच्छतायाः ‘एक पेड़ मां के नाम’इति अभियानम्
नवदिल्ली, 30 अक्टूबरमासः (हि.स.)।केन्द्रीयमत्स्यपालन–पशुपालन–दुग्धविकासमन्त्रालयस्य तथा पंचायतीराजराज्यमन्त्रिणः श्रीमान्‌ एस्‌.पी.सिंहबघेलमहाभागस्य अध्यक्षतायां गुरुवासरे नवीदिल्लीस्थिते एनिमल क्वारन्टाइन एण्ड सर्टिफिकेशन सर्विसेज्‌ (AQCS) इत्यस्म
केंद्रीय मंत्री एस.पी. बघेल ने चलाया स्वच्छता और ‘एक पेड़ मां के नाम’ अभियान


नवदिल्ली, 30 अक्टूबरमासः (हि.स.)।केन्द्रीयमत्स्यपालन–पशुपालन–दुग्धविकासमन्त्रालयस्य तथा पंचायतीराजराज्यमन्त्रिणः श्रीमान्‌ एस्‌.पी.सिंहबघेलमहाभागस्य अध्यक्षतायां गुरुवासरे नवीदिल्लीस्थिते एनिमल क्वारन्टाइन एण्ड सर्टिफिकेशन सर्विसेज्‌ (AQCS) इत्यस्मिन् स्थले “स्वच्छताअभियान” तथा “एकः वृक्षः मातुः नाम्ना” इत्यस्य कार्यक्रमयोः शुभारम्भः पौधारोपणकर्मणा अभवत्। तेन सह प्राचीनसञ्चिकानां अभिलेखानां च समीक्षा कृत्वा अनुपयोगीनां वस्तूनां निपादनं कारितम्।

पशुपालन–दुग्धविभागस्य (DAHD) द्वारा आयोजिते विशेषअभियान–५.० इत्यस्य अन्तर्गतं बघेलमहोदयः एक्यूसीएस्‌–परिसरस्य निरीक्षणं कृत्वा तत्रस्थितां स्वच्छतां सुव्यवस्थां च प्रशंसितवान्। तेन उक्तं यत् एक्यूसीएस्‌ भारतस्य महत्त्वपूर्णं केन्द्रं यत् देशं प्रविशन्तीनां पशूनां वैज्ञानिकपरीक्षणं स्वास्थ्यसुरक्षां च सुनिश्चितं करोति।

केन्द्रीयमत्स्यपालन–पशुपालन–दुग्धमन्त्रालयेन निर्दिष्टं यत् विशेषअभियान–५.० अन्तर्गतं विभागेन लंबितमामलानां निपादनं, सञ्चिकासमीक्षा, स्वच्छताकार्यं च क्षेत्रेषु उल्लेखनीया प्रगति प्राप्ता। कबाड–अनुपयोगीवस्तूनां विक्रयेन ५.५४ लक्षरूप्यकाणां आयः प्राप्ता।

मन्त्रालयस्य प्रतिवेदनुसारं सांसदेभ्यः प्राप्तेषु १५ सन्दर्भेषु ११ सन्दर्भाणां निपादनं कृतम्‌, संसदीयआश्वासनानां ५ मध्ये ३ पूर्णानि। राज्यसरकारतः प्राप्तेषु सर्वेषु ८ सन्दर्भेषु क्रियायाः सम्पादनं कृतम्‌, सार्वजनिकशिकायतानां २१४ सम्पूर्णं समाधानं सम्पन्नम्। प्रधानमन्त्र्यालयात् (PMO) प्राप्तेषु सर्वेषु ३ निर्देशेषु विभागेन सम्पूर्णक्रिया निष्पादिता।

लोकशिकायतापीलानां ३५ मध्ये २७ निपादिताः। नियमप्रक्रियासु च एकः सुधारः कृतः। विभागेन २४,६४५ भौतिकसञ्चिकानां तथा ६८० ई–सञ्चिकानां मध्ये ५६२ सञ्चिकानां समीक्षा सम्पन्ना। ततः २२१ स्थानेषु स्वच्छताकार्यं सफलतया सम्पादितम्।

---------------

हिन्दुस्थान समाचार