भारतस्य शौर्यस्य, स्वाभिमानस्य च सांस्कृतिकवैभवस्य प्रेरणास्थानं भविष्यति छत्रपतिशिवाजीमहाराजसंग्रहालयः — मुख्यमन्त्रिणा उक्तम्।
लखनऊनगरम्, ३० अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे संस्कृतिविभागस्य समीक्षा-सम्मेलनम् अकरोत्। अस्मिन् सन्दर्भे आगरानगरे निर्मीयमानस्य छत्रपति-शिवाजी-महाराज-संग्रहालयस्य निर्माणकार्याणां समीक्षा कृता। सः अवदत्— “एषः संग्रहाल
मुख्यमंत्री योगी


लखनऊनगरम्, ३० अक्टूबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे संस्कृतिविभागस्य समीक्षा-सम्मेलनम् अकरोत्। अस्मिन् सन्दर्भे आगरानगरे निर्मीयमानस्य छत्रपति-शिवाजी-महाराज-संग्रहालयस्य निर्माणकार्याणां समीक्षा कृता।

सः अवदत्— “एषः संग्रहालयः भारतस्य शौर्यस्य, स्वाभिमानस्य, सांस्कृतिकवैभवस्य च प्रेरणाकेन्द्रं भविष्यति। अद्यापि यत्पर्यन्तं प्रगत्याः स्थितिः अस्ति, तया अहं सन्तुष्टः। शेषकार्याणि शीघ्रं सम्पादनीयानि। भवननिर्माणकार्यं जनवरी-मासपर्यन्तं सर्वथा सम्पन्नं भवेत्, यतः संग्रहालयरूपदाने नियतकालः नातिक्राम्यते।”

मुख्यमन्त्रिणा उक्तम् “एषः संग्रहालयः केवलं इतिहासस्य स्थिरप्रदर्शनं न भविष्यति, किन्तु जीवमानानुभवः भविष्यति, यत्र आगन्तुकाः भारतस्य गौरवगाथां अनुभवितुं शक्नुयुः।” तेन निर्देशः दत्तः यत्, प्रत्येकं प्रदर्शिकां विषयानुगतरूपेण, अन्तःक्रियात्मक-प्रस्तुत्याः साहाय्येन विन्यस्तव्या, यतः आगन्तुकाः केवलं दर्शकाः न स्युः, अपि तु सहभागिनः अपि।

शिवाजी एण्ड द ग्रेट एस्केप गैलरी’ विषये मुख्यमन्त्रिणा निर्दिष्टम् — आगरादुर्गात् छत्रपति-शिवाजी-महाराजस्य ऐतिहासिकमुक्तिघटनां सप्त-आयामी-प्रौद्योगिकी (7D), अङ्कीय-ध्वनि, प्रकाश-प्रभावैः च सजीवतः प्रस्तूयताम्, यतः आगन्तुकाः तस्य क्षणस्य वीर्यं, रणनीतिं च प्रत्यक्षं अनुभवेत्।

एषः विभागः शिवाजी-महाराजस्य स्वराज्य-संकल्पस्य प्रतीकः भवेत्। ‘अग्रदूत-गैलरी’ विषये तेन उक्तम्— प्रथमस्वाधीनतासंग्रामस्य (१८५७) अमरसेनानिनां सम्बन्धिन्यः वस्तवः, स्मृतयः, वैधानिकप्रपत्रः च सुरक्षितरूपेण प्रदर्शनीयाः।

एषा प्रदर्शिका तेषां अग्रदूतानां गाथां कथयेत्, येन स्वातन्त्र्यस्य स्तम्भः स्थापितः। अत्र झांसी-रानी-लक्ष्मीबाई, नानासाहेबः, तात्याटोपेः चादयः वीराः आधुनिक-प्रौद्योगिक्या सह प्रदर्श्येरन्।

‘उत्सव-प्रदर्शिका’ विषये मुख्यमन्त्रिणा उक्तम्—काश्यां महाशिवरात्रिः, देवदीपावलिः, व्रजे श्रीकृष्णजन्मोत्सवः, रंगोत्सवः, प्रयागराजे महाकुम्भः च—एतेषां प्रमुखपर्वाणां जीवमानचित्रणं भवेत्। अत्र केवलं चित्राणि न स्थापनीयानि, अपि तु प्रत्येकः उत्सवः अन्तःक्रियात्मकानुभवरूपेण प्रदर्श्यताम् —

यत्र प्रकाशध्वनिसंगीतवर्णैः आगन्तुकाः उत्सवारम्भं अनुभवेरन्। ‘नदी-गैलरी’ इत्यत्र निर्देशः दत्तः — गङ्गा-यमुना-सरयू-घाघरा-नदीनां प्रति आस्था-संस्कृति-लोकजीवनस्य सजीवचित्रणं भवेत्। तथा च ‘देवासुर-संग्रामः’ इत्यादि अनुभागेन सृष्टेः, धर्मस्य, मानव-मूल्यानां च भारतीयव्याख्या दर्शनीया।

मुख्यमन्त्रिणा उक्तम्—संग्रहालय-परिसरे स्थापिता: सर्वाः कलाकृतयः, मूर्तयः, स्थापत्यतत्त्वानि च उत्तरप्रदेशस्य सांस्कृतिकात्मानं प्रतिनिदधतु।प्रत्येकं प्राकारं, प्राकारान्तं, कलाकृतिं च वाचालकथारूपां कर्तुं प्रयत्नः क्रियताम्, यत्र लोककला, पारम्परिकशिल्पं, आधुनिककला च एकत्र स्युः।

‘आगरा-गैलरी’ विषये तेन उक्तम्—तत्र नगरस्य स्थापत्य-सांस्कृतिक-विरासत् प्रमुखतया प्रदर्श्यताम्, यतः आगन्तुकाः मुगलकालीनं स्थापत्यं, ब्रज-संस्कृतिं, आधुनिकं आगरां च एकत्र पश्येयुः।

‘ओरिएन्टेशन-गैलरी’ तु संग्रहालयस्य प्रस्तावनारूपेण विकसितव्या, यत्र आगन्तुकाः संग्रहालयस्य उद्देश्यं, शिवाजी-महाराजस्य जीवनं, तस्य कालस्य सामाजिक-सांस्कृतिकं परिवेशं च ज्ञातुं शक्नुयुः।

मुख्यमन्त्रिणा उक्तम्— “संग्रहालयस्य उद्देश्यं केवलं अतीतस्य प्रदर्शनं न, किन्तु भविष्याय प्रेरणाकेंद्रं कर्तुमेव अस्ति।” सर्वासु प्रदर्शिकासु अनुभवक्षेत्रेषु च अन्तःक्रियात्मक-प्रौद्योगिकी, आभासी-यथार्थता, ध्वनि-प्रकाश-प्रदर्शनं, अङ्कीय-संग्रहालयाः च प्रयुज्यन्ताम्।

अन्ते मुख्यमन्त्रिणा संस्कृतिविभागं निर्माणसंस्थांश्च आदेशाः दत्ताः — “साप्ताहिकसमीक्षां कृत्वा सर्वकार्याणि निर्दिष्ट-गुणवत्ता-कालमर्यादाभ्यां सम्पन्नानि भवतु। वछत्रपति-शिवाजी-महाराज-संग्रहालयं आग्रायाः अस्मिन्नेव प्रदेशे सांस्कृतिक-गौरवस्य जीवन्मूर्ति भविष्यति।”

हिन्दुस्थान समाचार / अंशु गुप्ता