Enter your Email Address to subscribe to our newsletters

शिमला, 31 अक्टूबरमासः (हि.स.)। हिमाचलप्रदेशे अधुना युवानः कृत्रिमबुद्धिमत्ता (ए.आई.) तथा दत्तांशविज्ञान इत्यादिषु आधुनिकविषयेषु अध्ययनाय राज्यस्य अन्तर्गतम् एव अवसरं प्राप्स्यन्ति। राज्यसर्वकारः तांत्रिकशिक्षां भविष्यस्य आवश्यकतानुरूपं कृत्वा, अनेकेषु राजकीयबहुतकनीकी–तथा–अभियांत्रिकी–महाविद्यालयेषु ए.आई. तथा दत्तांशविज्ञान–पाठ्यक्रमान् आरब्धवन्तः।
सरकारीप्रवक्त्रा उक्तं यत्—राज्यस्य प्रमुखतांत्रिकशिक्षण–संस्थानेषु यथा राजकीयबहुतकनीकीमहाविद्यालयः बडू (हमीरपुर), राजकीयबहुतकनीकीमहाविद्यालयः रोहडू (शिमला) राजीवगान्धीराजकीयअभियांत्रिकीमहाविद्यालयः नगरोटाबगवा (कांगड़ा), अटल बिहारीवाजपेयीराजकीय अभियांत्रिकी एवं प्रौद्योगिकी संस्थानम् प्रगतिनगरम् (शिमला) तथा राजकीयबहुतकनीकीमहाविद्यालयः सुन्दरनगर (मण्डी)—एतेषु कृत्रिमबुद्धिमत्ता, मशीनलर्निङ्, आईओटी तथा दत्तांशविज्ञान–पाठ्यक्रमाः आरब्धाः सन्ति।
प्रवक्त्रा एव उक्तं यत् मुख्यमन्त्री सुखविन्द्रसिंहसुक्खू इत्यस्य निर्देशेन तांत्रिकशिक्षाविभागेन संगणक–अभियांत्रिकीविषयेन सह कृत्रिमबुद्धिमत्ता तथा आईओटी इत्येतयोः संयुक्तः डिप्लोमा–पाठ्यक्रमः निर्मितः अस्ति। अस्मिन् पाठ्यक्रमे विद्यार्थिभ्यः संगणक–अभियांत्रिकी–सहितं ए.आई. तथा दत्तांशविज्ञानस्य व्यवहारिकज्ञानम् अपि प्रदास्यते।
प्रवक्त्रा निगदितं यत्—हमीरपुरस्य बडू–पॉलिटेक्निक–महाविद्यालये आरब्धः डिप्लोमा इन कंप्यूटरसाइंस-इंजीनियरिंग एंड आईओटी इत्यस्मिन् विद्यार्थिनां मध्ये महानुत्साहः दृश्यते। सः उक्तवान् यत् अयं पाठ्यक्रमः तेषां कृते महानगरं विना आधुनिकतंत्रज्ञानं ज्ञातुम् अवसरं दास्यति।
सर्वकारः अपि एतेषां पाठ्यक्रमाणां कृते आवश्यक–अध्यापक–कर्मचारिणां नियुक्त्यर्थं निर्देशं दत्तवती अस्ति। सरकारस्य अभिप्रायः अस्ति यत्—कृत्रिमबुद्धिमत्ता तथा दत्तांशविज्ञान–क्षेत्रयोः युवानां कृते अपाराः संभावनाः सन्ति, येन रोजगार–स्वरोजगारयोः नूतनमार्गाः उद्घाट्यन्ते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता