सरदार पटेलः यस्याः एकतायाः सूत्रे बंधितं राष्ट्रस्य निर्माणं , तदीय रक्षा प्रत्येकं राष्ट्रभक्तस्य दायित्वम्- अमित शाहः
नवदिल्ली, 31 अक्टूबरमासः (हि.स.)।सरदारवल्लभभाइपटेलमहाभागस्य शतपञ्चाशदुत्तरशततमजन्मदिने (१५०वीं जयंती) निमित्तम् शुक्रवारदिने दिल्लीनगरस्थे मेजर ध्यानचन्द क्रीडाङ्गणे आयोजिते “एकता दौड़” (Run for Unity) इति कार्यक्रमस्य शुभारम्भः भारतस्य गृह तथा सहक
दिल्ली के मेजर ध्यानचंद स्टेडियम में आयोजित रन फॉर यूनिटी (एकता दौड़) को झड़ी दिखाते  केंद्रीय गृह एवं सहकारिता मंत्री अमित शाह, साथ  दिल्ली उपराज्यपाल विनय कुमार सक्सेना, मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 31 अक्टूबरमासः (हि.स.)।सरदारवल्लभभाइपटेलमहाभागस्य शतपञ्चाशदुत्तरशततमजन्मदिने (१५०वीं जयंती) निमित्तम् शुक्रवारदिने दिल्लीनगरस्थे मेजर ध्यानचन्द क्रीडाङ्गणे आयोजिते “एकता दौड़” (Run for Unity) इति कार्यक्रमस्य शुभारम्भः भारतस्य गृह तथा सहकारितामन्त्री आदरणीय अमितशाहेन कृतः। गृह मन्त्रिणा सह सर्वे “एक भारतः, श्रेष्ठ भारतः” इति संकल्पं पुनरावृत्त्य एकता–अखण्डतायाः शपथं स्वीकृतवन्तः।

अस्मिन् अवसरे केंद्रीयमन्त्रिणः मनोहरलालखट्टरः, डॉ. मनसुखमाण्डवियः, दिल्लीराज्यस्य उपराज्यपालः विनयकुमारसक्सेनः, मुख्यमन्त्री रेखागुप्ता, सांसद् बांसुरीस्वराज, मन्त्री प्रवेशसाहिबसिंहः तथा मनजिन्दरसिंहसिरसा अपि उपस्थिताः आसन्।

अमितशाहः स्वभाषणे अवदत् यत् भारतस्य स्वतंत्रतायां तथा तस्य मानचित्रनिर्माणे सरदारवल्लभभाइपटेलस्य महान् योगदानं आसीत्। लक्षद्वीपद्वीपसमूहः अद्य भारतस्य भागः अस्ति, तत्रापि पटेलमहाभागस्य अतिविशिष्टं योगदानं विद्यमानम्। तथापि तस्मिन् काले कांग्रेससरकारा तस्मै यथोचितं सम्मानं न दत्तवती। भारतरत्नपुरस्कारं तस्मै दातुं एकचत्वारिंशद्वर्षपर्यन्तं विलम्बः जातः।

तस्मिन्काले सरदारपटेलस्य कार्याणि स्मारकस्वरूपेण न प्रदर्शितानि आसन्। परन्तु नरेन्द्रमोदी गुजरातमुख्यमन्त्री सन् २०१३ तमे वर्षे अक्टोबरमासस्य ३१ दिनाङ्के पटेलजन्मदिने “स्टैच्यू ऑफ यूनिटी” इत्यस्य शिलान्यासं कृतवान् यत् अद्य विश्वस्य सर्वोच्चः पुरुषप्रतिमा अस्ति।

अमितशाहः उक्तवान् यत् सरदारपटेलः रियासतसमूहान् ऐक्ये नीत्वा देशस्य एकता-सुरक्षे सुदृढां कृतवान्। सः कृषकान्, पिछडजनान्, वञ्चितान् च सहकारितासम्बन्धेन एकत्र आनयत्, देशं स्वरोजगार–आत्मनिर्भरता दिग्दर्शनाय अग्रे नीतवान्। तस्य दृढं मतं आसीत् यत् देशस्य विकासः कृषकसमृद्धौ निहितः अस्ति। सः कृषकहिते, तेषां अधिकाररक्षणे च आजीवनं समर्पितः आसीत्।

अन्ते सः उक्तवान् — सरदारसाहबेन न्यायप्रधान–एकतामय–राष्ट्रस्य निर्माणं कृतम्, तस्य संरक्षणं प्रत्येकस्य राष्ट्रभक्तस्य कर्तव्यं भवेत्।

अस्मिन् अवसरे मुख्यमन्त्री रेखागुप्ता उक्तवती यत् “रन फॉर यूनिटी” इति उत्सवः तस्य विचारस्य प्रतीकः अस्ति, येन लौहपुरुषेण सरदारवल्लभभाइपटेलेन विखण्डितभूमिप्रदेशाः एकसूत्रे बद्धाः, अखण्डभारतरूपं निर्मितम्। तस्य जीवनम् अस्मान् शिक्षयति यत् एकता एव राष्ट्रस्य शक्ति:, सा एव भारतस्य अस्मिता इति।

---------------

हिन्दुस्थान समाचार