Enter your Email Address to subscribe to our newsletters



देहरादूनम्, 31 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणा पुष्करसिंहेन धामिना शुक्रवारस्य दिने लौहपुरुषस्य सरदारवल्लभभाइपटेलस्य जयंती अवसरं प्रति घण्टागृहे तस्य मूर्तौ भावभीन्या श्रद्धया पुष्पाञ्जलिः अर्पिता। ततः अनन्तरं सः एकतापदयात्रायाः शुभारम्भं कृतवान्।
मुख्यमन्त्रिणा युवानां प्रति आह्वानं कृतं यत्“भवन्तः सरदारपटेलस्य आदर्शान् आत्मसात् कृत्वा एकभारत–श्रेष्ठभारत इति परिकल्पनां साकारीकर्तुं सक्रियं योगदानं ददातु।”
तत् पश्चात् सः स्वदेश्यस्य ग्रहणं तथा नषामुक्त–उत्तराखण्डस्य संकल्पः इत्येतयोः शपथां सर्वेभ्यः दत्तवान्।
मुख्यमन्त्रिणा उक्तं यत् “तस्य अदम्यसाहसस्य, दूरदर्शितायाः, राष्ट्रसमर्पणभावस्य च कारणेनैव अद्य भारतम् एकं शक्तिशालि–एकीकृतं राष्ट्रं रूपेण स्थितम्।सरदारपटेलस्य सम्पूर्णं जीवनम् देशस्य एकतायै अखण्डतायै च समर्पितम्।सः पञ्चशतं षष्ट्यधिकाः रियासताः एकसूत्रे पिरोत्वा अखण्डभारतस्य निर्माणं कृतवान्।एवमेव महापुरुषस्य योगदानं नमनं कुर्वन् प्रधानमन्त्रिणा नरेन्द्रमोदिना २०१४ तमे वर्षे तस्य जयंतीं ‘राष्ट्रीयएकतादिवस’ इत्याख्यया आचरितुं निर्णयः कृतः, यः तस्य प्रति सत्यश्रद्धाञ्जलिः अस्ति।”
मुख्यमन्त्रिणा अपि उक्तं यत् “राज्ये सर्वत्र १६ नवम्बरपर्यन्तं प्रत्येकजिले त्रिषु स्थलेषु वॉकथॉन नामकाः कार्यक्रमाः आयोजिताः।प्रत्येके स्थले ८–१० किलोमीटरपर्यन्तं पदयात्रया सह नषामुक्तभारत, एकः वृक्षः मातुः नाम्ना, आत्मनिर्भरभारत इत्यादयः जनजागरणकार्यक्रमाः संयोज्य समाजे सकारात्मकसन्देशः प्रसारितः क्रियते।”
सः अवदत् यत् “एषः वॉकथॉन केवलं धावनं नास्ति, अपितु भारतस्य विविधतायाम् एकतायाः भावना–संवर्धनाय साधनं अस्ति।एषा दौड् युवानां मध्ये राष्ट्रनिर्माणे, अनुशासने, सेवाभावे च प्रेरणाम् उपजनयिष्यति।”
मुख्यमन्त्रिणा उक्तं यत्“उत्तराखण्डं देशस्य श्रेष्ठराज्यं कर्तुं राज्यसरकारा निरन्तरं प्रयत्नशीलाऽस्ति।”
एतस्मिन् अवसरे कैबिनेट् मन्त्री–सत्पालमहारााजः, गणेशजोशी, रेखा आर्या, राज्यसभासांसदः नरेशबंसलः, विधायकौ खजानदासः सविताकपूरा, अन्ये जनप्रतिनिधयः, देहरादून–जिलाधिकारी सविनबंसलः, वरिष्ठपुलिसअधिकारी अजयसिंहः च उपस्थिताः आसन्।
अन्यस्मिन् स्थले मुख्यमन्त्रिणा आवासे अपि सरदारवल्लभभाइपटेलस्य चित्रे श्रद्धासुमनानि अर्पितानि।तत्र सः अवदत्—“सरदारपटेलेन अनेकाः रियासताः एकसूत्रे पिरोत्वा अखण्डभारतनिर्माणस्य मार्गः प्रशस्तः कृतः।तस्य राष्ट्रनिष्ठदृष्टिकोणः अस्मान् विकसितभारतनिर्माणे सततं प्रेरयिष्यति।
हिन्दुस्थान समाचार