Enter your Email Address to subscribe to our newsletters

गौतमबुद्ध नगरम्, 31 अक्टूबरमासः (हि.स.)।नोएडा-अन्तरराष्ट्रिय-विमानपत्तने अद्यतने दिनाङ्के नागरिकविमाननमहानिदेशालयस्य (डीजीसीए) पक्षेण कैलिब्रेशन-परीक्षण-उड्डयनम् आरब्धम् अस्ति। शुक्रवारदिने चत्वारः विमानयात्रिकाः अवतरणं प्रस्थानं च करिष्यन्ति। अवतरण–प्रस्थानयोः समये डीजीसीए सर्वान् मानकान् परीक्ष्य विश्लेषणं करिष्यति। ततः परम् नोएडा-अन्तरराष्ट्रीय-विमानपत्तनाय अनापत्तिप्रमाणपत्रम् (NOC) प्रदास्यति।
परीक्षणकाले विमानपत्तने विशेष-संवेदक–उपकरणैः संयुतानि विमानानि आकाशे उड्डीष्य भूमौ अवतरीष्यन्ति च।
यमुना-एक्सप्रेसवे औद्योगिक-विकास-प्राधिकरणस्य विशेषकार्याधिकारी शैलेन्द्रभाटियेन सूचितम् यत् अद्यतने दिनात् द्विदिनपर्यन्तं विमानपत्तने परीक्षणकार्यं प्रवर्तिष्यते। तेन उक्तं यत् एयरइण्डियायाः विमानम् परीक्षणार्थं उड्डीष्टम्, अवतरितं च।
अत्र रनवेः, नेविगेशनस्य, संचारप्रणालीनां, रडार-यन्त्रस्य च विशेषतया निरीक्षणं क्रियते। एषः परीक्षणः उड्डयनसुरक्षायाः सुनिश्चित्य कृते विधीयते।
परीक्षणे सर्वे उपकरण-संवेदकाः यदि सम्यक् कार्यं कुर्वन्ति इति प्रमाणीकृतं भविष्यति तर्हि विमानसेवाः आरभ्यन्ते। तदा विमानपत्तनं एयरोड्रम-लाइसेंसं प्राप्स्यति।
तस्य औपचारिक-शुभारम्भात् अनन्तरं डिसेम्बर-मासे विमानसेवाः आरम्भनीया इति संभावनाः व्यक्ताः।शैलेन्द्रभाटिया उक्तवान् यत् एषः परीक्षणः गुरुवासरे आरभ्येते स्म, किन्तु दुषितवातावरणस्य कारणेन अद्य आरम्भः कृतः इति।
---------------
हिन्दुस्थान समाचार