छत्तीसगढरजतमहोत्सवः - देशस्य विख्यातकलाकाराः छत्तीसगढराज्ये पञ्चदिनानि यावत् सांस्कृतिककार्यक्रमानां विविधरूपाणि प्रकाशयिष्यन्ति, रसमाधुर्यं च विस्तारयिष्यन्ति
-प्रथमदिने पार्श्वगायकः हंसराज रघुवंशी आकर्षणस्य केन्द्रं भविष्यति रायपुरम्, 31 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य स्थापने रजतमहोत्सवे देशप्रदेशयोः प्रसिद्धकलाकारैः मनोहराणां सांस्कृतिककार्यक्रमाणां प्रस्तुतिर्भविष्यति। नवम्बरमासस्य एकतमे दिने
छत्तीसगढ़ रजत महोत्सव शामिल हाेने वाले  कलाकार फाइल फाेटाे


-प्रथमदिने पार्श्वगायकः हंसराज रघुवंशी आकर्षणस्य केन्द्रं भविष्यति

रायपुरम्, 31 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य स्थापने रजतमहोत्सवे देशप्रदेशयोः प्रसिद्धकलाकारैः मनोहराणां सांस्कृतिककार्यक्रमाणां प्रस्तुतिर्भविष्यति। नवम्बरमासस्य एकतमे दिने प्रारभ्य पञ्चमदिनपर्यन्तं मुख्य-मञ्चे शिल्पग्राममञ्चे च विविध-सांस्कृतिक-आयोजनानि भविष्यन्ति। अस्मिन् राज्योत्सवे छत्तीसगढस्य लोकप्रियकलाकारैः सह देशस्य ख्यातकलाकाराः — हंसराजः रघुवंशी, आदित्यनारायणः, अंकिततिवारी, कैलाशखेरः, भूमित्रिवेदी च — स्वीयां मनोहरां प्रस्तुतिं दास्यन्ति।

राज्योत्सवस्य शुभारम्भसन्दर्भे नव-रायपुरे डा. श्यामा प्रसाद मुखर्जी वाणिज्य-व्यापार-परिसरे निर्मितात् मुख्य-मञ्चात् सांस्कृतिक-कार्यक्रमाणां प्रारम्भः पूर्वाह्णे एकादशवादने ऐश्वर्या पण्डितस्य गायनेन भविष्यति। ततः परं पी.सी.लाल यादव, आरू साहू, दुष्यन्तहरमुख, निर्मलाठाकुर च प्रस्तुतिः दास्यन्ति। सायं प्रहरस्य अष्टवादनात् राष्ट्रीयकलाकारः हंसराजः रघुवंशी स्वस्य गानप्रस्तुतिं करिष्यति।

द्वितीये दिने नवम्बर-द्वितीये सुप्रसिद्धः पार्श्वगायकः आदित्यनारायणः प्रमुखं आकर्षणं भविष्यति। तेन गीतानां प्रस्तुति रात्रौ नववादनात् आरभ्य भविष्यति। अस्मिन् दिने सायंकाले षट्वादने दशवादनपर्यन्तं सुनीलतिवारी, जयश्रीनायर, चिन्हारी-द-गर्ल-बैण्ड, पद्मश्री डोमारसिंह कंवर-नाचा-दल च कार्यक्रमं करिष्यन्ति।

तृतीये दिने नवम्बर-तृतीये पार्श्वगायिका भूमित्रिवेदी रात्रौ नववादनात् प्रस्तुति करिष्यति। अस्यां सायंसंध्यायां पद्मश्री उषाबारले पाण्डवानी, राकेशशर्मा सूफी-भजन-गायनं, कुलेश्वर-ताम्रकारः लोकमञ्चं च करिष्यन्ति। चतुर्थे दिने नवम्बर-चतुर्थे रात्रौ नववादनात् पार्श्वगायकः अंकिततिवारी गायनं करिष्यति। सायंकाले कला-केंद्र-रायपुर-बैण्ड, रेखा-देवार-लोकगीत, प्रकाश-अवस्थी-प्रस्तुतिः च भविष्यन्ति।

पञ्चमे दिने नवम्बर-पञ्चमे रात्रौ नववादनात् पार्श्वगायकः कैलाशखेरः स्वीयां प्रस्तुतिं दास्यति। तस्मिन् दिने सायं षट्वादने पूनम-विराट-तिवारी, इन्दिरा-कला-संगीत-विश्वविद्यालयस्य खैरागढ-कार्यक्रमश्च भविष्यति।

शिल्पग्राम-मञ्चस्य कार्यक्रमाः—

एकतमे नवम्बर-दिने मोहम्मद-अनसस्य पियानोवादनं, बासंती-वैष्णव-कथकनृत्यम्, रमादत्त-जोशी-सोनाली-सेनयोः गायनम्, स्वीटी-पगारिया-कथकः, मंगलूराम-यादवस्य बाँसगीतिः, चारूलता-देशमुख-भरतनाट्यम्, दुष्यन्त-द्विवेदी-पाण्डवानी, लोकेश-साहू-भजनं, बॉबी-मंडलः लोकसंगीतं, चन्द्रभूषण-वर्मा-लोकमञ्चं च करिष्यन्ति।

द्वितीये दिने रेखा-जलक्षत्रीय-भरथरी, इकबाल-ओबेराय-म्यूजिक-ग्रुप, बसंतबीर-उपाध्याय-मानस-बैण्ड, दीपाली-पाण्डेय-कथकः, लिलेश्वर-सिंहा-लोकसंगीतं, अंविता-विश्वकर्मा-भरतनाट्यम्, आशिका-सिंघल-कथकः, प्रांजल-राजपूत-भरथरी, प्रसिद्धि-सिंहा-कथकः, जीवनदास-मानिकपुरी-लोकमञ्चं, जितेन्द्र-कुमार-साहू-सोन्हा-बादरं च प्रस्तास्यन्ति।

तृतीये दिने सुरेश-ठाकुर-भजनं, डा. आरती-सिंह-कथकः, राखी-राय-भरतनाट्यम्, पुसऊराम-बंजारे-पाण्डवानी, इशिका-गिरी-कथकः, गिरवर-सिंह-ध्रुव-भुंजिया-नृत्यम्, राधिका-शर्मा-कथकः, शान्तिबाई-चेलक-पाण्डवानी, दुष्यन्तकुमार-दुबे-सुआ-नृत्यम्, गंगाबाई-मानिकपुरी-पाण्डवानी, संगीता-कापसे-शास्त्रीय-नृत्यम्, महेन्द्र-चौहान-एव-बैण्ड, घनश्याम-महानंद-फ्यूजन-बैण्ड-प्रस्तुतिश्च भविष्यति।

चतुर्थे दिने भूमिसूता-मिश्रा-ओडिसी, चैतुराम-तारक-नाचा-दलः, आशना-दिल्लीवार-कथकः, पुष्पा-साहू-लोकसंगीतं, महेन्द्र-चौहान-पाण्डवानी, प्रिति-गोस्वामी-कथकः, पृथा-मिश्रा-शास्त्रीय-गायनम्, महेश-साहू-लोकमञ्चं, विजय-चंद्राकर-लोकसंगीतं, तिलक-राजा-साहू-लोकधारा-प्रस्तुतिश्च भविष्यति।

पञ्चमे दिने दुर्गासाहू पाण्डवानी, डालीथरवानी कथकः, संजयनारंग-लोकसंगीतम्, सारिकाशर्मा-कथकः, महेश्वरीसिंहा-लोकमञ्चं, चंद्रशेखरचकोर-लोकनाट्यम्, नीतिन-अग्रवाल-लोकसंगीतं, द्वारिकाप्रसादसाहू-डण्डानृत्यम्, महुआ-मजुमदार-लोकसंगीतं, नरेन्द्र-जलक्षत्रीय-लोकसंगीत-प्रस्तुतिश्च भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता