Enter your Email Address to subscribe to our newsletters

भारतस्य इतिहासे एकः नवम्बरः दिवसः अत्यन्तं विशेषः अस्ति। एषः सः दिवसः अस्ति, यदा देशस्य अनेकानि राज्यानि स्वस्य नूतनरूपेण अस्तित्वं प्राप्नुवन्। सन् 1956 तमे वर्षे भाषानुसारं राज्यपुनर्गठनस्य प्रक्रिया आरब्धा आसीत्, यत्र अस्मिन् दिने आन्ध्रप्रदेशः, केरलम्, कर्नाटकं, मध्यप्रदेशः चादयः प्रमुखराज्यानि औपचारिकतया स्थापितानि। अस्यैव दिने दिल्लीकेन्द्रशासितप्रदेशरूपेण घोषिताभवत्।
चत्वारिंशदधिकं वर्षाणि अनन्तरं, सन् 2000 तमे वर्षे अटल बिहारी वाजपेयी–सर्वकारः पुनः राज्यपुनर्गठनस्य महान् निर्णयः कृतः। तदा मध्यप्रदेशात् छत्तीसगढ़राज्यं, उत्तरप्रदेशात् उत्तराखण्डं (तदा उत्तराञ्चलम्), बिहारात् झारखण्डं च पृथक्कृत्य नवानि राज्यानि निर्मितानि। एषः निर्णयः अपि ०१ नवम्बर 2000 तमे दिनाङ्कात् प्रभावी अभवत्।
यदा अन्यराज्यानि स्वविकासमार्गे अग्रे गतवन्ति, तदा अपि दिल्लीराजधानीस्य स्थितिर्विशेषजटिलाऽभवत्। विशेषतः यदा अरविन्दः केजरीवालः मुख्यमन्त्रिरूपेण नियुक्तः, तदा सः दिल्लीं “पूर्णराज्य” रूपेण स्वातन्त्र्यं दातुं याचितवान्। सः अस्मिन् विषयेस्वं आमरणअनशनमपि कृतवान्, प्रकरणं सर्वोच्चन्यायालयं प्रति अपि गतं, किन्तु अद्यापि “पूर्णराज्य” इत्यस्य अधिकारलाभः असम्भाव्यः दृश्यते।
वस्तुतः, दिल्लीं राज्यरूपेण स्थापयितुं याऽभ्यर्थना आसीत्, सा स्वातन्त्र्यपूर्वकाले एव प्रारब्धा आसीत्। संविधान–निर्माण–समितेः अध्यक्षः डॉ. भीमरावः अम्बेडकरः अपि दिल्लीं पूर्णराज्यरूपेण स्थापयितुं विरोधं कृतवान्। तेन उक्तं यत् — “दिल्ली भारतस्य राजधानी भविष्यति, अस्याः विधानानि संसद् निर्मास्यति, केन्द्रसरकारस्य शासनं अत्र भविष्यति, तथा अपि स्थानिकप्रशासनं स्यात् किन्तु तत् राष्ट्रपति–अधीनं भवेत्।”
स्वातन्त्र्यप्राप्त्यानन्तरं 1957 तमे वर्षे दिल्ली–नगर–निगमः (एम.सी.डी.) स्थापितः, 1966 तमे वर्षे महानगर–परिषद् निर्मिता, ततः 1987 तमे वर्षे सरकारिया–आयोगस्य अनुसंशानुसारं 1993 तमे वर्षे देहली–विधानसभागठनं कृतम्। देहली राष्ट्रीयराजधानी अस्ति, अतः अस्याः प्रशासनं केन्द्र–नियन्त्रणाधीनं भविष्यति इति आवश्यकं मन्यते, यथा अमेरिकायां वाशिंग्टन–डी.सी., ऑस्ट्रेलियायां कैनबरा, कनाडायाम् ओटावा च सन्ति।
अतः, एतद् स्पष्टं यत् दिल्लीस्य “पूर्णराज्य” संघर्षः अद्यापि समाप्तः नास्ति, सम्भाव्यते च यत् अयं विवादः आगामिकालेऽपि प्रवर्तिष्यते।
महत्त्वपूर्णाः ऐतिहासिकाः घटनाः (१ नवम्बरदिनाङ्के)
1755— पुर्तगालराजधानी लिस्बननगरे भूकम्पेन ५० सहस्राधिकाः जनाः मृताः।
1765— ब्रिटेन–औपनिवेशिकप्रदेशेषु स्टैम्प–अधिनियमः लागू कृतः।
1800— जॉन एडम्सः अमेरिकायाः प्रथमः राष्ट्रपतिः आसीत्, यः व्हाइटहाउस् मध्ये अवसत्।
1858— भारतस्य शासनं ईस्ट इण्डिया कम्पनीतः ब्रिटिश–राजाधिकारिणं प्रति स्थानान्तरितम्, वायसरायस्य पदं स्थापितम्।
1881— कलकत्तानगरे ट्रामसेवा आरब्धा।
1913— तारकनाथदासेन कैलिफोर्नियायां गदर–आन्दोलनम् आरब्धम्।
1922 — ओटोमन–साम्राज्यस्य अन्तः, सुल्तान् महमूदः षष्ठः निष्कासित
1944— द्वितीय–विश्वयुद्धे ब्रिटिश–सेना नीदरलैण्डस्य वालचेरेन्–प्रदेशं प्राप्य।
1946— पश्चिमजर्मनीराज्ये निदरसचसेन–राज्यगठनम्।
1950 — भारतदेशे प्रथमं भाप–इञ्जनं चितरञ्जन–रेल–कारखाने निर्मितम्।
1952— जय–नारायणः राजस्थान–मुख्यमन्त्रिपदं स्वीकृतवान्।
1954— पाण्डिचेरी, करिकल, माहे, यानोन इत्येते फ्रांसीसी–प्रदेशाः भारत–शासनाय समर्पिताः।
1956 — केरलम्, कर्नाटकं, आन्ध्रप्रदेशः, मध्यप्रदेशः, दिल्ली–केन्द्रशासित–प्रदेशः च स्थापिताः।
1956— एस्. निजलिङ्गप्पः कर्नाटक–मुख्यमन्त्रिपदं स्वीकृतवान्।
1956— पण्डितरविशङ्करशुक्लः मध्यप्रदेश–मुख्यमन्त्रिरभवत्।
1966 — हरियाणा–राज्यस्य चण्डीगढ–केन्द्रशासित–प्रदेशस्य च स्थापना।
1973 मैसूर–राज्यस्य नाम परिवर्तनं कृत्वा “कर्नाटकं” इति स्थापितम्।
1979— बोलिविया–देशे सैन्य–अधिग्रहणम्।
2000— छत्तीसगढ़–राज्यस्य स्थापना, अजीत–योगीः प्रथमः मुख्यमन्त्री नियुक्तः।
2000 — उत्तराखण्डं, झारखण्डं च पृथक् राज्यरूपेण स्थापने।
जन्मानि (१ नवम्बरमासः)
1924 — रामकिंकर–उपाध्यायः, प्रसिद्धः कथावाचकः हिन्दी–साहित्यकारः।
1927— दीननाथ–भार्गवः, नन्दलाल–बोसस्य शिष्यः, प्रसिद्धः चित्रकारः।
1930— अब्दुलक़वीदेसनावी, उर्दूसाहित्यस्य विख्यातः लेखकः।
1936— आदर्शसेन-आनन्दः, भारतस्य २९ तमः मुख्यन्यायाधीशः।
1940— रमेशचन्द्र–लहोती, भारतस्य ३५ तमः मुख्य–न्यायाधीशः।
1942 — प्रभा–खेतान्, ख्यातिः उपन्यासकारा, कवयित्री, नारीवादी–चिन्तयित्री च।
1946— अनिल–बैजलः, दिल्ली–उपराज्यपालः।
1947 — मुरलीकान्त–पेटकरः, भारतस्य प्रमुखः पैरा–क्रीडकः।
1948— सन्तोष–गंगवारः, प्रसिद्धः राजनीतिज्ञः, संसदीयराज्यमन्त्रिः।
1973— ऐश्वर्या–रायः, प्रसिद्धा अभिनेत्री, पूर्व–मिस्–वर्ल्ड्।
973— रूबीभाटिया, भारतीय–अभिनेत्री।
निधनानि
1980— दामोदर–मेननः, प्रमुखः स्वतन्त्रतासेनानी।
विशेषदिवसाः
पाण्डिचेरी–विलय–दिवसः।
आन्ध्रप्रदेश–स्थापनादिवसः।
कर्नाटक–स्थापनादिवसः।
केरल–दिवसः।
मध्यप्रदेश–दिवसः।
पंजाब–दिवसः।
हरियाणा–दिवसः।
अन्तरराष्ट्रिय–रेडकॉस–सप्ताहः।
------------------
हिन्दुस्थान समाचार / अंशु गुप्ता